SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१०,थाका।। पराशरमाधवः । स्पृशन्ति दहन्ति च, ते पदे पदे यज्ञफलानि क्रमेण प्रामुवन्ति, तथा तेषामशभादिकमपि नास्ति, तेषां खानादेव मद्यः द्धिर्विधीयते इत्यर्थः । तथा च वृद्धपराशरः, "प्रेतस्पर्शनसंस्कारे ब्राह्मणो नैव दुथति। वोढा वैवामिदाता च सद्यः स्नात्वा विशुध्यति" इति॥ यत्तु हारीतेनोकम् । "प्रेतस्पृशोग्रामं न प्रविशेयुरानक्षत्रदर्शनाद्रात्रौ चेदादित्यस्य” इति । यच देबलेनोकम् - ___ अहि चेदहनं कुर्यात् अर्द्धमस्तमयाद्रवेः । स्नात्वा सई विशेविप्रो रात्रौ चेदुदयाद्रवेः” इति । तत् स्नेहादिना करणीयनिहरणे वेदितव्यम् । किं तु प्राणायामोऽपि कर्त्तव्यदत्याह,असगोत्रमबन्धुञ्च प्रेतीभूतं विजोत्तमम्। वहित्वा च दहित्वा च प्राणायामेन शुद्ध्यति॥४१॥ इति॥ असगोत्रममपिण्डमवन्धुं बन्धुरहितं प्रेतं ब्राह्मणं ये वहन्ति दहन्ति, तेषां प्राणायामेन शुद्धिरित्यर्थः । न केबलं खानप्राणायामो, अग्निस्पोऽपि कर्त्तव्यः । तदुक्रमङ्गिरसा, "यः कश्चिनिहरेत् प्रेतमसपिण्डं कथञ्चन । सात्वा मचेलं स्पष्टाऽग्निं तस्मिन्नेवाहि वै शुचिः" इति॥ स्नेहादिना प्रेतनिहरणं कूवतोऽसपिण्डस्याशौचमस्ति । तथाच मनुः, "श्रमपिण्डं विजं प्रेतं विप्रोनिहत्य बन्धुवत् । विश्राध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy