SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प.पा.का. पराशरमाधवः। "माते पुत्र पितुः स्वानं मचेलन्त विधीयते। माता शयेद्दशाहेन नानात्तु स्पर्शनं पितुः" इति ॥ वृहस्पतिरपि, "शावाशौचं तु सर्वेषां मृतकं मातुरेव च।। स्वानं प्रकुर्यात पिता ज्ञातयो न सचेलिनः" इति ॥ गोतमोऽपि, "मातापित्रीस्तु सूतकमुपस्पृश्य पिता शुचिः" इति । आदिपुराणेऽपि, "सूतकी* तु मुखं दृष्टा जातस्य जनकस्ततः । कृत्वा सचेलं स्नानन्तु शुद्धो भवति तत्क्षणात्” इति ॥ मृतिकया मह संसर्गकरणे तनिमित्तमस्पश्यत्वं दशाहमस्तीत्या, यदि पत्न्यां प्रस्तायां सम्यक कुरुते विजः ॥२५॥ सूतकन्तु भवेत्तस्य यदि विप्रः षडङ्गवित् । इति ॥ सूतिकया पत्न्या सह पति: संसर्ग यदि कुर्यात्तदा विद्याकर्मयुक्तस्य विप्रन्याप्यस्पश्यत्वलक्षणं सूतकं भवेत्, किमुतान्यस्येत्यर्थः । तथा च सुमन्तुः। “मातुरेव सूतकं तां स्पृशतश्च नेतरेषाम्” इति । मृतिका स्पातोजनकस्यास्पृश्यत्वलक्षणं मृतकं भवति, नान्येषामित्यर्थः । ___ ननु जनननिमित्तमेवास्पृश्यत्वं भर्तुः स्नानानन्तरमपि किं न स्थादत श्राइ,सम्पर्काज्जायते दोषो नान्यो दोषोऽस्ति वै हिजे ॥२६॥ * सूतके इति, मु. पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy