SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २ अ० आ०का० ] पराशर माधवः षण्डवदन्यानपि वर्जनीयान्नरानाह कात्यायनः, - "दूरस्थानामविद्यानां मोक्षमार्गानुसारिणाम् । शूराणां निर्द्धनानाञ्च न देया कन्यका बुधैः” इति । बौधायनोऽपि - Acharya Shri Kailashsagarsuri Gyanmandir कीदृशाय तर्हि देया, इत्यत आह मनुः,“उत्कृष्टायाभिरूपाय वराय सदृशाय च । अप्राप्तामपि तां तस्मै कन्यां दद्याद्विचक्षणः” - इति ॥ - यत्त. यमेनोक्तम्, - अप्राप्तामपीति अप्राप्त विवाह समय बालिकामपीत्यर्थः । “जन्मतो गर्भाधानाद्वा पञ्चमाब्दात् परं शुभम् । कुमारीणां तथा दानं मेखला वन्धनन्तथा* ॥” - इति । - “दद्याद्गुणवते कन्यां नग्निकां ब्रह्मचारिणे । अपि वा गुणहीनाय नोपरुन्ध्याद् रजखलाम् ॥” - इति । “काममामरणातिष्ठेद्गृहे कन्यर्त्तुमत्यपि । नत्वेवैनां प्रयच्छेत गुणहोनाय कर्हिचित् ॥” - इति । For Private And Personal तद्गुणवति सम्भवति गुणहोनाय कन्यां न दद्यादित्येवंपरम् न तु सर्वथा गुणहीन निषेध परम् । न चेत्. 'अपि वा गुणहीनाय' - इति बौधायनोक्तानुकल्पोनिर्विषयः स्यात् । 'ऋतुमत्यपि तिष्टेत्' इति वचन, उक्तरीत्या न स्वार्थे तात्पर्य्यवत् । यतः, 'नोपरुन्ध्याद्ररजखलाम्' - इत्येनेन विरुद्धयते । अतएव वसिष्ठोऽपि - “प्रयच्छेन्नग्निकां कन्यां ऋतुकालभयात् पिता । ऋतुमत्या हि तिष्ठन्त्या दोषः पितरभृच्छति” - इति । * श्लोकोऽयं नास्ति मु० पुस्तके | ४८१ >
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy