SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । [२. खाका । ऽहमिति प्रयुञ्जते । एवमन्यदप्युदाहार्यम्। गोत्रन्तु वंशपरम्परा प्रसिद्धम् । यस्यावद्धावरेण सह प्रवरैक्यं गोत्रेयं वा नास्ति, मा वधूर्विवाइमर्हति, कचिह्नोत्र भेदेऽपि प्रवक्यमस्ति । तद्यथा, याज्ञवल्क्य-बाधूल-मौनकानां भित्र गोत्राणां भार्गव-वीतहव्य-मावेतमेति प्रवरस्यैक्यात्। अतस्तत्र विवाह-प्रमको तयवच्छेदाय, असमानार्षजाम्, -इत्युक्तम् । क्वचित् प्रवर-भेदेऽपि गोक्यम् । तद्यथा, आङ्गिरमांवरीषयौवनाश्व-मान्धाचंवरीषयौवनाश्वेत्यत्राङ्गिरस-मान्धान-प्रवर-भेदेऽपि यौवनाश्वगोचमेकम् । अतस्तत्र विवाहोमादित्यममानगोत्रग्रहणम् । गोच-प्रवर्तकाश्च प्राधान्येनाष्टौ मुनयः, ते चागस्त्याटमाः सप्तर्षयः । तथा च बौधायन: "यमदनिर्भरद्वाजाविश्वामित्रोऽत्रि-गौतमौ । वशिष्ठकश्यपागस्त्यामुनयोगोत्रकारिणः । एतेषां यान्यपत्यानि तानि गोत्राणि मन्यते” इति । एतेषाच गोत्राणामवान्तरभेदाः सहस्र-सङ्ख्याकास्तेषां गणास्त्वे कान-पञ्चाशत् । तथा च बौधायन:, "गोत्राणाञ्च सहस्राणि प्रयुतान्यर्बुदानि च । जनपञ्चाशदेतेषां प्रवराषिदर्शनात्" इति । प्रवर-गोत्रयोः समानत्वासमानत्वे बौधायन-कात्यायन-विश्वामित्र-गर्गादि-प्रणीतेषु प्रवरग्रन्थेषु प्रसिद्धः । न चात्र मिलित * माभूदित्यसमानार्षगोत्रजामित्युक्तम्, इति मु. पुस्तके पाठः। + विश्वामित्रोयमदमिभरद्वाजोऽथ गौतमः, इति स.सा. पुस्तकयोः पाठः। रहीत, इति मु• पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy