________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३६.
पराशरमाधवः।
[१०,श्रा का
अशित्वा तु परे लोके खानि मांसानि खादयेत्” इति ॥ बहुषु भिक्षुकेषु भागतेष्वशकेन किं कर्त्तव्यमित्याशङ्ख्याह, - दद्याच भिक्षा-त्रितयं परिवाइब्रह्मचारिणाम् ।
इच्छया च ततादद्यादिभवे* सत्यवारितम् ॥५२॥ निगद-व्याख्यातमेतत् । यथाविभवं भिक्षा-दानं कूर्मपुराणे दर्शितम्,
"भिक्षां वै भिक्षवे दद्यात् विधिवब्रह्मचारिणे ।
दद्यादन्नं यथाशक्ति ह्यर्थियोलोभवर्जितः" इति ॥ यनि-भिक्षा-प्रदाने नियममाह,यति-हस्ते जलं दद्याद्भक्षं दद्यात् पुनर्जलम्।
तद्भक्षं मेरुणा तुल्यं तज्जलं सागरोपमम् ॥ ५३ ॥ स्पष्टमेतत् । तच्च भै सति विभवे बहुलं दातव्यम्। तरक्तं ब्रह्मपुराणे,
“य: पात्र-पूरणीं भिक्षां यतिभ्यः मंप्रयच्छति ।
विमुक्तः मर्चपापेभ्यो नासौ दुर्गतिमाप्नुयात्"-दति ॥ यथा भिक्षुकस्य समागतस्यातिथ्यमवश्यं कर्त्तव्यं, तद्वदेश्वोपेतस्यापि स्वग्टहे समागतस्यातिथ्यमभ्युदय-कामिना कर्त्तव्यमित्याह,
यस्य छचं हयश्चैव कुञ्जरारोहमृद्धिमत् । ऐन्द्रं स्थानमुपासीत तस्मात्तन्न विचारयेत् ॥ ५४॥ * तताविहान् विभवे,-इति मु० पुस्तके पाठः । + श्लोकोऽयं मुद्रितमूलपुस्तके मास्ति। । भिक्षाप्रदाने,-इति सः सेाशा. पुस्तकेषु पाठः।
For Private And Personal