SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [१५०,था.का. व्यर्थमब्राह्मणे दानं पतिते तस्करे तथा। गुरोश्चाप्रीति-जनके कृतघ्ने ग्राम-याजके ॥ वेद-विक्रयके व यस्य चोपपतिर्महे । स्त्रीभिर्जितेषु यद्दत्तं व्याल-ग्राहे तथैवच ॥ ब्रह्म-बन्धौ च यदत्तं यद्दत्तं सुषलीपतौ । परिचारेषु यद्दत्तं वृथादानानि षोड़श” ॥ इति । महाभारते, "पङ्गन्धवधिराभूकाव्याधिनोपहताश्च ये। भर्तुव्यास्ते महाराज, न तु देयः प्रतिग्रहः" ॥ इति । पात्रोपेक्षणमपात्र-दानञ्च मनुर्निषेधति,__अनईते यद्ददाति न ददाति यदहते । अहानहापरिज्ञानादानाद् धर्माच हीयते” ॥ इति । भविष्योत्तरे देव-स्वरूपं निरूपितम् , "यद्यदिष्टं विशिष्टश्च न्याय-प्राप्तञ्च यद्भवेत् । तनद् गुणवते देयमित्येतद्दान-लक्षणम्"॥ इति । अशेषस्य देवत्व-प्राप्तौ विशेषमाह याज्ञवल्क्यः , "स्व-कुटुम्बाविरोधेन देयं दार-सुतादृते । नान्वये(१) मति सर्वखं यचान्यस्मै प्रतिश्रुतम्" ॥ इति । वृहस्पतिरपि, * छनईणे यद्ददाति नददाति यदहण, इति स मो• पुस्तकयोः पाठः । -- -- - - (१) अन्वयः सन्ततिः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy