SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ܟ २ अध्याये २ किम् । मादित्येवमादि नुपलब्धिकारणं न ग्टहात इति सोऽयमनुचारितो नास्तीति, उच्चारणमस्य व्यञ्जकं तदभावात् प्रागुच्चारणादनुपलब्धिरिति । किमिदमुच्चारणं नामेति । विवचाजनितेन प्रयत्नेन कोष्ठस्य वायोः परितस्य कण्ठताल्व दिप्रतिघातः । यथास्थानं प्रतिघाताद्दर्णाभिव्यक्तिरिति । संयोगविशेषो वै प्रतिषतः प्रतिषिद्धञ्च संयोगस्य व्यञ्चकत्वम् । तस्मान्न व्यञ्जकाभावादग्रहणम् अपि त्वभावादेवेति सोऽयमुच्चार्यमाणः श्रयते श्रयमाणश्च भूत्वा भवतोति श्रनुमीयते ऊर्ध्वं चोच्चारणाच्छ्रयते स भूत्वा न भवतीति अभावान्न श्रयत इति कथं वावरणाद्यनुपलब्धेरित्यक्त तस्मादुत्पत्ति तिरोभावधर्मकः शब्द इति एवञ्च सति तव पांशुभिरिवावाकिरन्निदमाह ॥ तदनुपलब्ध ेरनुपलम्भादावरणोपपत्तिः ॥ ५० ॥ ६१ यद्यनुपलम्भादावरणं नास्ति आवरणानुपलब्धिरपि तर्ह्यनुपलम्भानास्तीति तस्या अभावादप्रतिषिद्धमावरयमिति कथं पुनर्जानीतेऽभात्रानावरणानुपलब्धिरुपलभ्यत इति किमत्र ज्ञेयं प्रत्यात्मवेदनीयत्वात् समानम् अयं खल्वावरणमनुपलभमानः प्रत्यात्ममेव संवेदयते नावरणमुपलम्भ इति यथा कुये नाष्टतस्यावरणमुपलभमानः प्रत्यात्ममेव संवेदयते सेयमावरणोपलब्धिवदावरणानुपलब्धिरपि संवेद्येवेति एवञ्च सत्यपहृत विषयसुत्तरवाक्यमस्तीति व्यभ्यनुज्ञावादेन तूच्यते जातिवादिना ॥ अनुपलम्भादप्यनुपलब्धिसङ्गाववन्नावरणानुप पत्तिरनुपलम्भात् ॥ २१ ॥ यथानुपलभ्यमानाऽय्यावरणानुपलब्धिरस्ति एवमनुपलभ्यमानमप्यावरणमस्तीति यद्यभ्यनुजानाति भवाननुपलभ्यमानाम्यावरणानुपलब्धिरस्ति एवमनुपलभ्य मानमभ्यावरणमस्तीति । यद्यभ्यनुजानाति न चानुपलभ्यमाना नावरणानुपलब्धिर स्तोति श्रभ्यनुज्ञाय च वदति नाख्यावरणमनुपलम्भादिति । एतब्रिभ्यभ्यनुज्ञावादे प्रतिपत्तिनियमो नोपपद्यत इति ॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy