________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्यायनभाष्ये
१७०
हानं धर्मोपयच, योगशास्वाञ्चाध्यात्मविधिः प्रतिपत्तव्यः । स पुनस्तपःप्राणायामः प्रत्याहारो ध्यानं धारयेति इन्द्रियविषयेषु प्रसयानाभ्यासो रागद्वेषप्रहाणार्थः । उपायस्तु योगाचारविधानमिति ॥
ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः ॥ ४७ ॥
तदर्थमिति प्रकृतम्, ज्ञायतेऽनेनेति ज्ञानमात्मविद्याशास्त्रन्तस्य ग्रहणमध्ययनधारणे अभ्यासः सततक्रियाध्ययनश्रवणचिन्तनानि तद्विद्यैश्च मह सम्बाद इति प्रज्ञापरिपाकार्थम्, परिपाकस्तु संशय क े दममविज्ञातार्थावबोधोऽध्यवसिताभ्यनुज्ञानमिति । समायवादः संवादः । तद्विद्येव मह संवाद इत्यविभक्तार्थं वचनं विभज्यते ॥
तं शिष्यगुरुसब्रह्मचारिविशिष्टा योऽर्थिभिरनसूयिभिरभ्युपेयात् ॥ ४८ ॥
निगदेनैव नीतार्थमिति यदिदं मन्येत पचप्रतिपञ्च परिग्रहः प्रतिकूलः परस्येति ॥
प्रतिपक्ष हौनमपि वा प्रयोजनार्थमर्थित्वे ॥ ४६ ॥
तमुपेयादिति वर्त्तते परतः प्रज्ञामुपादिसमानस्तत्त्व बुभुत्सा प्रकाशनेन वपञ्चमनवस्थापयन् स्वदर्शनम् परिशोधयेदिति । अन्योऽन्यत्यनी - कानि च मावादुकानां दर्शनानि स्वपचरागेण चैके न्यायमतिवर्त्तन्ने तत्र ॥
•
तत्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे वोज - प्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् ।। ५० ।।
अनुत्पन्नतत्वज्ञानानाममही पदोषाणां तदर्थं घटमानानामेतदिति । विद्यानिर्वेदादिभिव परेणाविज्ञायमानस्य, ताभ्यां विग्टह्य कथनम् ।
For Private And Personal