SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir १६६ ४ श्रध्याय २ चाह्निकम् । अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ॥४५ योगाभ्यास जनितो धम्र्म्मो जन्मान्तरेऽप्यनुवर्त्तते प्रचयकाष्ठागते तत्त्वज्ञानहेतो धर्मे प्रकृष्टायां समाधिभावनायां तत्त्वज्ञानमुत्पद्यत इति, दृष्टश्च समाधिर्नार्थविशेषप्राबल्याभिभवः । नाहमेतदश्रौषं माहमेतदज्ञासिषमन्यत्र मे मनोऽभूदित्याह लौकिक इति । यद्यर्थविशेषप्राबल्यादनिच्छतोऽपि ब्रह्मत्पत्तिरनुज्ञायते ॥ अपवर्गेऽप्येवं प्रसङ्गः ॥ ४३ ॥ मुक्तस्यापि बाह्यार्थसामर्थ्याबुद्धय उत्पद्येरन्निति || न निष्पन्नावश्यम्भावित्वात् ॥ ४४ ॥ कथाविष्पनशरीरे चेष्टे न्द्रियार्थाश्रये निमित्तभावादवश्यम्भावी बुद्धीनामुत्पादः न च प्रबलोऽपि सन् वाह्येोऽर्थ आत्मनो बुद्धुत्पादे समर्थो भवति । तस्येन्द्रियेण संयोगाद्बुद्धुत्पादे सामर्थ्यं दृष्टमिति ॥ तदभावश्चापवर्गे ॥ ४५ ॥ तस्य बुद्धिनिमित्ताश्रयस्य शरीरेन्द्रियस्य धर्माधर्माभावादभावोऽपवर्गे तत्र यदुक्तमपवर्गेऽप्येवं प्रसङ्ग इति तदयुक्तम् । तस्मात् सर्वदुःखविमोच्चोऽपवर्गः यस्मात् सर्वदुःखवीनं सर्वदुःखायतनं चापवर्गे विच्छिद्यते, तस्मात् सर्वेण दुःखेन विवक्तिरपवर्गो न निर्वोजं निरायतनञ्च दुःखमुत्पद्यत इति ॥ • तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः ॥ ४६ ॥ तस्यापवर्गस्याधिगमाय यमनियमाभ्यामात्मसंस्कारः । यमः समानमात्र मियां धसाधनम्, नियमस्तु विशिष्टम्, श्रात्मसंस्कारः पुनरधर्मा १५ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy