________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतकः।
सीमन्ते च ललाटे च त्याज्यो दूरात्प्रयत्नतः। सा पति हन्ति वर्षेण यस्या मध्ये कृकाटिकम् । प्रदक्षिणो वा वामो वा रोम्णामावर्तकः स्त्रियः ॥१४१॥ एको वा मूर्धनि द्वौ वा वामे वामगती यदि । आदशाहं पतिघ्नौ तौ त्याज्यौ दूरात्सुबुद्धिना ॥ १४२ ॥ कट्यावर्ता च कुटिला नाभ्यावर्ता पतिव्रता ।
पृष्ठावर्ता च भर्तृघ्नी कुलटा वाथ जायते ॥ १४३ ।। इति समुद्रः
ललाटे दृश्यते यस्याः कृष्णं तिलकमुसमम् । पश्च सा जनयेत्पुत्रान् धनधान्यसमाकुला ॥ १४४ ॥ यस्यास्तु हसमानाया ललाटे स्वस्तिको भवेत् ।
वाहनानां सहस्रस्य साधिपत्यं ध्रुवं लभेत् ॥ १४५॥ अथ संक्षेपेण सुलक्षणषोडशकम्-- - पीनोरुः पीनगण्डा, समसितदशना, पनपत्रायताक्षी । बिम्बोष्ठी, तुङ्गनासा, गजपतिगमना, दक्षिणावर्तनाभिः ॥ स्निग्धाङ्गी, चारवेशा, मृदुपृथुजघना, सुस्वरा, चारुकेशा, ।
भर्ता तस्याः क्षितीशो भवति च सुभगा पुत्रयुक्ता च नारी॥१४६॥ ऊरू शुभौ करिकरप्रतिमावरोमावश्वत्थ यत्र सदृशं विपुलं च गुह्यम् । श्रोणी ललाटमुरुकूर्मसमुन्नतं च गूढो मणिश्च विपुलां श्रियमातनोति ॥१४७॥ अथ कुलक्षणषोडशकम्पिङ्गाक्षी, गण्डकूपा, खरपरुपरवा, स्थूलजकोर्ध्वकेशी, रूक्षाक्षी, वक्रनासा प्रविरलदशना कृष्णताल्वोष्ठजिह्वा । शुष्काङ्गी संहतभ्रूः कुचयुगविषमा वामना वातिदीर्घा
कन्यैषा वर्जनीया धनसुखरहिता दुष्टशीला च नित्यम् ॥१४८॥इति अथ नारीरञ्जनविधाः
बाल्ये खेलनकैः काले दत्तापूर्वफलाशनैः । मोदते यौवनस्था तु वस्त्रालंकरणादिभिः ॥ १४९॥
For Private and Personal Use Only