________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
नीतिकल्पतरुः।
भ्रवोरन्तर्ललाटे वा मषको राज्यसूचकः ।, वामे कपोले मषकः शोणो मिष्टान्नदः स्त्रियः ॥ १२८ ॥ तिलकं लाञ्छनं चापि हृदि सौभाग्यकारणम् । . यस्या दक्षिणवक्षोजे शोणे तिलकलाञ्छने ।। कन्याचतुष्टयं सूते सुतानामपि च त्रयम् ॥ १२९ ॥ तिलकं लाञ्छनं शोणं यस्या वामे कुचे भवेत् । एकं पुत्रं प्रसूयादौ ततः सा विधवा भवेत् ॥ १३०॥ गुह्यस्य दक्षिणे भागे तिलकं यदि योषितः । तदा क्षितिपतेः पत्नी सूते वा क्षितिपं सुतम् ॥ १३१ ॥ नासाग्रे मषकः शोणो महिष्या एव जायते । कृष्णः स एव भर्तृघ्न्याः पुंश्चल्याः परिकीर्तितः ॥ १३२ ॥ नाभेरधस्तात्तिलको मषको लाञ्छनं शुभम् ।। मषकस्तिलकं चिहं गह्यदेशे दरिद्रकृत् ॥ १३३ ॥ करे कर्णे कपोले वा कण्ठे वामे स्फुरेद्यदि । एषां त्रयाणामेकं तु प्राग्गर्भे पुत्रदं भवेत् ॥ १३४ ॥ भालगेन त्रिशूलेन निर्मितेन स्वयम्भुवा । नितम्बिनीसहस्राणां स्वामित्वं योषिदाप्नुयात् ॥ १३५ ।। पाणी प्रदक्षिणावर्तो धन्यो वामो न शोभनः । नाभौ श्रुतावुरसि वा दक्षिणावर्त ईरितः ।। १३६ ॥ सुखाय दक्षिणावर्तः पृष्ठवंशस्य दक्षिणे । अन्तःपृष्ठे नाभिसमो बह्वायुःपुत्रवर्धनः ॥ १३७ ॥ राजपत्न्याः प्रशस्येत भगमौलौ प्रदक्षिणः । स चेच्छकटभङ्गः स्याद्बह्वपत्यसुखप्रदः ॥ १३८ ॥ कटिगो गुह्यवेधेन पत्यपत्यनिपातनः । [१०१स्यातामुदरवेगेन पृथ्वावर्ती न शोभनौ ॥ १३९ ॥ एकेन हन्ति भर्तारं भवेदन्येन पुंश्चली । कण्ठगो दक्षिणावर्तो दुःखवैधव्यसूचकः ॥ १४० ।।
For Private and Personal Use Only