________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे भाष्यम्-अणायगं णायगं का, गामे मग्गेऽहवा जई ।
ओभास्स जायई पत्तं, आणाभंगाइ पावई ॥ छाया-अज्ञातकं हातकं वा प्रामे मार्गेऽथवा यतिः ।
अवभाष्य याचते पात्रमाक्षाभङ्गादि प्राप्नोति ॥ अवचरिः-- यो यतिः श्रमणः श्रमणी वा ग्राममध्ये ग्राममार्गे ग्राममध्यवर्तिमार्ग वा ग्रामद्वयमध्यवर्तिमार्गमध्ये इत्यर्थः अज्ञातकम् ज्ञातकं श्रावकमश्रावकं वा अवभाष्य उच्चैः स्वरेण कथयित्वा कथयित्वा याचते स यतिः श्रमणः श्रमणी वा आज्ञाभङ्गादिकान् आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादोषान् प्राप्नुयात् तस्मात्कारणात् श्रमणः श्रमणी वा ग्रामस्य मार्गमध्ये अन्यत्र वा मार्गमध्ये स्वजनास्वजनादिकं श्रावकमश्रावकं वा अवभाष्य पात्रादिकं न याचेत न वा याचमानं श्रमणान्तरं कथमपि कदाचिदप्यनुमोदयेत् इति ।। सू० ५६॥
. सूत्रम्--जे भिक्खू णायगं वा अणायगं वा उवासगं वा अणुवासंग वा परिसामज्झओ उट्ठवेत्ता पडिग्गहं ओभासिय ओभासिय जायइ जायंतं वा साइज्जइ ॥ सू० ५७॥
छाया-यो भिक्षुआतकं वा अचातकं वा उपास वा अनुपासकं वा परिषन्मध्यात् उत्थाप्य प्रतिग्रहमवभाज्यावभाष्य याचते याचमानं वा स्वदते ॥ सू० ५७ ॥
चूर्णिः-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः ‘णायगं वा' ज्ञातकं वा 'अणायगं वा' अज्ञातकं वा 'उवासर्म वा' उपासकं श्रावकं वा 'अणुवासगं वा' अनुपासकं श्रावकभिन्नं वा यं कमपि व्यक्तिविशेषम् 'परिसामज्झओ उद्ववेत्ता' परिषन्मध्यात् उत्थाप्य, तत्र परिषत् सभा, तन्मध्यात् उत्थाप्य 'पडिग्गहे' प्रतिग्रहं पात्रम् ओभासिय 'ओभासिय' अवक्षाध्याक्भाष्य मिष्टमनोज्ञादिवचनं वा कथयित्वा कथयित्वा 'जायइ' याचते 'जायंत वा साइज्जई' याचमानं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकार:भाष्यम्-णायगाई सभामज्झा, उहाविय जई जइ ।
जायई पत्तवत्थाई, आणामं गाइ पावई ॥ छाया--पातकादिकं सभामध्यादुत्थाप्य यतिर्यदि। . याचसे वनपात्रावील आहाभङ्गादि प्राप्नोति ॥
अवचूरिः--यदि कदाचित् सभा परिषत् तन्मध्यात् उत्थाप्य ज्ञातकादिकं स्वजनमस्वजनं वा श्रवकमश्रावकं वा पात्रवस्त्रादीन् याचते प्रार्थयते तदा आज्ञाभङ्गादिकान् दोषान् प्राप्नुयात् तस्मात् तथा न कुर्यात् , न वा तथाकुर्वन्तमनुमोदयेदिति । सभात उत्थाप्य स्वजनादिना वार्तालापकरणे
For Private and Personal Use Only