SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णिभाष्यावचूरिः उ.१४ सू०५५-५७ पात्रस्य कोरण-मार्गसभागतयातकादियाचननि० ३४३ सूत्रम् ॥ सू० ५३ ।। एवं त्रसप्राणजातं कुन्थुपिपीलिकादिकं तदविषयकमपि सूत्रं विज्ञेयं व्याख्येयं च ॥ सू०५४॥ सूत्रम्- भिक्खू पडिग्गहं कोरेइ कोरावेइ कोरियं आहट्टदिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ।। सू० ५५॥ छाया-यो भिक्षुः प्रतिग्रहं कोरयति कोरावयति कोरितमाहत्य दीयमानं प्रतिगृसाति प्रतिगृह्यन्तं वा स्वदते ॥ सू० ५५ ॥ चूर्णि:-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'पडिग्गह' प्रतिग्रहं पात्रम् 'कोरेइ कोरेइ इति देशीशब्दोऽयम तदर्थस्तु सूक्ष्मच्छिनैश्चित्रयति अर्थात् यो भिक्षुः पात्रस्य मुखादिकं विच्छित्य स्वयं सम्पादयति चित्रादिकं च पात्रे स्वयं करोति 'कोरावेई' कोरावयति चित्रयति मन्यद्वारा पात्रस्य मुखादिकं चित्रादिकं च कारयति 'कोरियं आहटुदिज्जमाणं' कोरितमाहृत्य दीयमानं चित्रितं पात्रं परद्वारा सम्मुखमागत्य दीयमानम् 'पडिग्गाहेइ' प्रतिगृह्णाति स्वीकरोति स्वीकारयति वा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृहन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ५५॥ सूत्रम्-जे भिक्खू णायगं वा अणायगं वा उवासंगं वा अणुवासगं वा गामंतरंसि वा गामपहंतरंसि वा पडिग्गहं ओभासिय आभासिय जायइ जायंतं वा साइज्जइ ॥ सू० ५६॥ छाया---यो भिक्षुतिकं वा अबातकं वा उपासकं वा अनुपासकं प्रामान्तरे वा प्रामपथान्तरे वा प्रतिग्रहमवभाण्यावभाष्य याचते याचमानं वा स्वदते ॥ सू० ५६ ॥ चूर्णि-'जे भिक्खू' इत्यादि । 'जे भिवखू' यः कश्चिद् भिक्षुः 'णायगं वा' ज्ञातकं वा स्वजनं वा तत्र स्वजनः पूर्वसंस्तुतः पश्चात्संस्तुतश्च, तत्र पूर्वसंस्तुतः पूर्वपरिचितो मातापितृभ्रातृप्रभृतिकः, पश्चात्संस्तुतः श्वशुरश्वश्रूश्यालकादिः 'अणायगं वा' अज्ञातकम् अस्वजनं स्वजनभिन्नो वा पूर्वपरिचितः ग्रामवासी देशवाशी वा तम् ‘उवासगं वा' उपासकं जिनधर्मानुयायिनं श्रावकं श्राधिका वा 'अणुवासगं वा' अनुपासकं श्रावकभिन्नं यं कमपि वा 'गामंतरंसि वा' प्रामान्तरे वा-द्वयोमियोर्मध्यभागे 'गामपतरंसि बा' प्रामपथान्तरे वा ग्रामस्य मार्गद्वयमध्ये 'ओभासिय ओभासिय' अवभाष्यावभाष्य उच्चैःशब्देन कथयित्वा कथयित्वा 'पडिग्गई' प्रतिप्रहं पात्रादिकम् 'जायइ' याचते पात्रयाचनां करोति 'जायंत वा साइज्जई' याचमानं वा स्वदते स प्रायश्चित्तभाग् भवति । अत्राह भाष्यकार: For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy