SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ निशीमस चूर्णी-'जे मिक्खू' इत्यादि। 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सणकप्पासाओ वा' शणकार्पासात् शणसूत्रात् 'शगं' लोकप्रसिद्धम् 'उण्णकप्पासामो वा' ऊर्णाकार्पासादा- अजोष्ट्रादीनाम्-ऊर्णासूत्रेणेत्यर्थः, पोडकप्पासाओ वा' पोंडूकार्पासास-बनजातकापासेनेत्यर्थः, 'अमिलकप्पासाओ वा' अमिलकार्पासाद्वा कार्यासविशेषात् , कर्तितशणादिसूत्रेणेत्यर्थः दीड. मुत्ताई करेइ' दीर्घसूत्राणि करोति शणादिसूत्रेण दीर्घसूत्राणि वस्त्रान्तभागस्थितसूत्राणि दीर्घाणि संपादयतीत्यर्थः तथा 'करेंतं वा साइज्जई' कुर्वन्तं वा स्वदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति । एवं शणादिना सूत्राणि संपादयतः श्रमणस्य सूत्रार्थयोर्हानिभवति । यस्मात् दीर्घसूत्रनिर्माणे एव समयस्य व्यतीयमानत्वात् स्वाध्यायार्थ समय एव न मिलति, इत्येवं क्रमेण सूत्रार्थयोविस्मरणं जायते । एवं यदि कश्चित् श्रावकादि दीर्घसूत्रं कुर्वतं साधु पश्यति तदा 'दीर्घसूत्रनिर्माण गृहिणां कर्म' इति कृत्वा तस्य श्रमणस्य शासनस्य च लघुता भवति । एवं तेषु दीर्घस्त्रेषु शुषिरभागे मशकादिजीवानां विनाशोपि जायते इति संयमविराधनमपि भवति । यस्मात् कारणात् दीर्घसूत्रनिर्माणे एते उपर्युक्ता दोषा भवन्ति तस्मात् कारणात् श्रमणः स्वयं दीर्घसूत्रनिर्माण न कुर्यात् न वा दीर्घसूत्राणि कुर्वन्तमनुमोदयेदिति । दीर्घसूत्रार्थ यन्त्रादिचालनमावश्यक ततश्च यन्त्रचालनेन वायुकायिका जीवा विनश्यन्ति ततश्च संयमविराधनम् , संयतास्तु वायुविराधनापेक्षया स्वात्मविराधनमेव वरमिति मन्यन्ते, वायुकायिकविराधने षटकायानामपि विराधनं संभवति तेन संयमविनाशः, संयमविनाशे च सर्वेषां महाव्रतानां विराधनमप्यापधेत, उक्तं च आचारागसूत्रेप्रथमाध्ययने सप्तमोदेशके प्रथमसूत्रे-'इह संतिगया दविया णावखंति जीविउं' इति । इह शान्तिगताः शान्तिमग्नाः द्रविकाः द्रवः-संयमस्तद्वन्तः कर्मनिवारणशीलाः संयमिनः जीवितुम् व्यजनादिना वायुकायिकस्य विराधनेनप्राणान् धारयितुं नावकाङ्क्षन्ति नेच्छन्ति-इत्यर्थः । यस्तु एकजीवविराधनं करोति स षण्णामपि विराधनं करोति । उक्तं चाचारागसूत्रे द्वितीयाध्ययने षष्ठोदेशके द्वितीयसूत्रे-'सिया तत्थ एगयरे विपरामुसइ छेसु अन्नयरंमि कप्पई' स्यात्तत्रैकतरं विपरामशति षट्स अन्यतरस्मिन् कल्पते, इति छाया । अयं भावः-एककायविराधनायां सत्यां षट्काय विराधना भवति, विस्तरतस्तु तत्रैव विलोकनीयम् । एवं ध्वनिवर्धकयंत्रे (लाउडस्पीकर) इति संप्रतिकालप्रसिद्ध व्याख्यानादिकरणे षट्कायविरा धनं भवतीति, तत्र वायुकायविराधनात् । एवं दीर्घसूत्रनिर्माण वायुकायिकविराधनासंभवात् सूत्रे दीर्घसूत्रकरणस्य निषेधः कृत इति, तस्मात् वायुकायरक्षणार्थ यतना कर्तव्या, अकरणे प्रायश्चित्तप्रसंगात् ॥ सू० २५ ॥ . सूत्रम्-जे भिक्खू सचित्ताई दारुदंडाणि वा वेणुदंडाणि वा वेत्तदंडाणि वा करेइ करेंतं वा साइज्जइ ॥ सू० २६॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy