SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानादेशाभिः-बहुविधानार्यदेशोत्पन्नाभिरित्यर्थः, विदेशस्तदीयदेशापेक्षया चम्पानगरी विदेशः तस्य परिमण्डिकाभिः, 'इंगियचिंतियपत्थियवियाणियाहिं' तत्र इङ्गितेन-नयनादि. चेष्टाविशेषेण चिन्तितं च परेण हृदि स्थापितं प्रार्थितं च विजानन्ति यास्तास्तथा ताभिः, स्वस्वदेशे यन्नेपथ्यं परिघानादिरचना तद्वद्गृहीतो वेषा यकाभिस्तास्तथा ताभिः। निपुणनामधेयकुशला यास्तास्तथा ताभिः अत एव विनीताभिः युक्तेति गम्यते, तथा चेटिकाचक्रवालेन अर्थात् स्वदेशसंभवेन वृन्देन परिक्षिता या सा तथा । ' उवट्ठाणसाला' उपवेशनमण्डपः । 'दुरुहइ ' आरोहति । यत्रैव श्रमणो भगवान् तत्रैवोपागता-संप्राप्ता, तदनु महावोरं त्रिकृत्वो वन्दते-स्तुत्या, नमस्यति-प्रणमति, स्थिता चैव ऊर्ध्वस्थानेन, कृताञ्जलिपुटा अभिसंमुखा सती पर्युपासते। धर्मकथाश्रवणानन्तरं — विकृत्वो' वन्दयित्वा : वन्दित्वा ) एवमवादी' एवं खलु भंते' इत्यादि सुगमम् । [पृ०७] अत्र कालोदेव्याः पुत्रः कालनामा कुमारो हस्तितुरगरथपदातिरूपनिजसैन्यपरिवृतः कूणिकराजनियुक्तश्चेटकराजेन सह रथमुशलं सङ्ग्रामयन् सुभटैश्चेटकसत्कैर्यदस्य कृतं तदाह-'हयमहियपवरवीरघाइयनिवडियचिंधज्झयपडागे' (हतः) सैन्यस्य हतत्वात् , मथितो मानस्य मन्थनात् , प्रवरवीराः-सुभटा घातिताः-विनाशिता यस्य, तथा निपातिताश्चिह्नध्वजाः-गरुडादिचिह्नयुक्ताः केतवः पताकाश्च यस्य स तथा, ततः पदचतुष्टयस्य कर्मधारयः । अत एव 'निरालो. याओ दिसाओ करेमाणे' त्ति निर्गतालोका दिशः कुर्वन् चेटकराजः(स्य) 'सपक्खं सपडिदिसिं' ति सपक्ष-समानपार्श्व समानवामेतरपार्श्वतया, सप्रतिदिक्-समानप्रतिदिक्तयाऽत्यर्थमभिमुख इत्यर्थः अभिमुखागमने हि परस्परस्य समाविव दक्षिण For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy