SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृच्छम-शरीरादिवार्ताप्रश्नं, पर्युपासनं-सेवा, तद्भावस्तसा तया, एकस्यापि आर्यस्य आर्यप्रणेतृकत्वात् ,धार्मिकस्य धर्मप्रतिबद्धत्वात् , वन्दामि-वन्दामि-वन्दे,स्तौमि, नमस्यामि-प्रणमामि,सत्कारयामि-आदरं करोमि वस्त्राद्यर्चनं वा, सन्मानयामि उचितप्रतिपत्येति । कल्याणं-कल्याणहेतुं, मङ्गलं दुरितोपशमनहेतुं, देवं चैत्यमिव चैत्यं, पर्युपासयामि-सेवे, एतत् , नोऽस्माकं, प्रेत्यभवे-जन्मान्तरे, हिताय पथ्यान्नवत् , शर्मणे, क्षमाय-सङ्गतत्वाय, निःश्रेयसाय-मोक्षाय, आनुगामिकत्वायभवपरम्परासु सानुबन्धसुखाय, भविष्यति, इति कृत्वा-इति हेतोः, संप्रेक्षते पर्यालोचयति संप्रेक्ष्य चैवमवादीत [ पृ० ६ ] शीघ्रमेव 'भो देवाणुप्पिया' । धर्माय नियुक्तं धार्मिकं, यानप्रवरं, 'चाउग्घंटं आसरह' ति चतस्रो घण्टाः पृष्टतोऽग्रतः पाश्वतश्च लम्बमाना यस्य स चतुर्घण्टः, अश्वयुक्तो रथोऽश्वरथस्तमश्वरथं, युक्तमेवाश्वादिभिः, उपस्थापयत-प्रगुणीकुरुत, प्रगुणीकृत्य मम समर्पयत । 'हाय'त्ति कृतमज्जना, स्नानान्तरं — कयबलिकम्म 'त्ति स्वगृहे देवतानां कृतबलिकर्मा, 'कयकोउयमंगलपायच्छित्त' त्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानीव दुःस्वप्नादिव्यपोहायावश्यकर्तव्यत्वात् प्रायश्चित्तानि यया सा तथा । तत्र कौतुकानिमषोपुण्ड्रादीनि मंगलादीनि सिद्धार्थदध्यक्षतर्वाकुरादीनि, 'सुद्धप्पावेस्साई वत्थाई परिहिया' 'अप्पमहग्घाभरणालंकियसरीरा' (इति) सुगमम् , 'बहूहिं खुजाहिं जावे' त्यादि, तत्र कुब्जिकाभिः-वक्रजङ्घाभिः, चिलातीभिः---अनार्यदेशोत्पन्नाभिः, वामनाभिः-हस्वशरीराभिः, वटभाभिः-मडहकोष्ठाभिः, बर्बरीभिः-बर्बरीभिः-बर्बरदेशसंभवाभिः, बकुशिकोभिः यौनकाभिः पण्हकाभिः इसिनिकाभिः वासिनिकाभिः लासिकाभिः लकुसिकाभिः द्रविडोभिः सिंहलीभिः आरबीभिः पक्वणीभिः बहुलीभिः मुसण्डीभिः शबरीभिः पारसीभिः For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy