________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दापयिष्ये ततो भोज्यं, निमध्येति स कूटधीः । तदर्थमातिथेयार्थी स्वयं वत्राज स व्रजे ॥ १८८ ॥ तद्दृहन्तो निषिद्धास्ते, मृहुर्नेत्रनिरीक्षणात् । कुमारेण घृणाढ्येण साधोर्मूलं दयाधनम् ।। १८९ ।। सोऽभ्येत्य तत्तदानीय, कुमारं प्रति चावदत् । आतिथेयं गृहाणेदं भुक्तौ नेति न गद्यते ।। १९० ।। कुमारः माह मे पर्व - दिनमस्ति प्रशस्तधीः । भुञ्जे भोज्यं यतो नैव, धर्मो नियमपालनात् । १९१ ॥ अथ सार्थनरैः पीतं, पयस्तस्य विषान्वितम् | अज्ञातवित्तशीलाना-मन्नं मार्गे न भुज्यते ॥ १९२॥ पयः पीतैरमीभिस्स्वं, जीवितं तत्त्यजे क्षणात् । तेनापि जगृहे सर्व महो ! विश्वस्तमारणम् ॥ १९३॥ वर्षन् बाणावलीमेष, दधावे भूपजं प्रति । कुमारेणापि बाणेन हतो मर्मणि तस्करः ।। १९४ ।। सहतोऽवददुच्चैस्तं रञ्जितस्त्वत्प्रहारतः । परासोर्मम काष्ठानि, त्वया देयानि निश्चितम् ॥ १९५ ॥ अपरं सरितोर्मध्ये, प्रोतु देवतागृहम् । विभागे तस्य पाश्चात्ये, चतुरस्रा गुरुः शिला ॥। १९६ ॥ तामुत्पाट्य गृहं गच्छे-भूमेः सोमवरानन ! । ममास्ति प्रेयसी तत्र, जयश्रीर्नामधेयतः ॥ १९७ ॥ ततो द्रव्यं गृहीत्वोच्चैः कुरुष्व स्वोचितां क्रियाम् । असावित्युचिवान्प्राणैर्मुमुचे व्यथयातुरैः ॥ १९८ ॥ तदुक्तं तत्तथा चक्रे, गतो भूमिगृहेऽसकौ । प्रेक्षितुं तां प्रवृत्तोऽथ, दृशा प्रेमप्रगल्भया ॥ १९९ ॥ ततो मदनमञ्जर्या, कोपारुणितनेत्रया । अप्रशस्तपरीणामा - द्रोषादेषोऽपहस्तितः ॥ २०० ॥ तव कार्ये मया त्यक्तं, पुरं पुरमिवाऽऽत्मनः । त्यक्ता माता पिता बन्धु - स्तव चेष्टेदृशी परम् ॥। २०१ ।। श्रुत्वेत्यमुष्या वचनं, गुरुवाक्यमिवापरम् । ततोऽचालीद्रथारूढो, नान्यथा प्रेम वर्द्धते २०२ ॥
॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नमो जयः
अगढदत्तकथा