________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
यितुमावयोरद्भुतजलनिधिमनमन्तःकरणम्, तदेव मञ्जरीसमागमसंविधानमानुपूव्र्येण कथयतु वयस्यः' इति । (किंचिन्मुखमवनम्य ।) किमनेन कथितेनाकथितेन वा विफलेन मनोरथेन । तथापि प्रियसहचरयोरनुयोगो न प्रत्यादेशमहतीति कथयामि तावत् । आकर्णयतं वयस्यौ। किं ब्रूथः-~~-'इमाववहितौ स्वः' इति । अस्ति किल समस्तसुरमस्तकमणिस्तबकपालीदीपालीनीराजितचरणनखस्य चरणानतचतुर्मुखस्य भगवतो भागवतहृदयमन्दिराभरणस्य श्रीमदिन्दिरारमणस्य निरन्तरतरङ्गदभङ्गुरोत्सवनटनरङ्ग निखिलनगरोत्तमाङ्गं निशाकरपुष्करिणीपरिष्कृतोत्सङ्ग कवरकन्यकारूतपरिष्वङ्गं कनकगोपुरोत्तुङ्गं वन्दनमालिकावलदनेकभृङ्ग वन्दारुजनपापभङ्गं वैजयन्तिकाचुम्बितगगनगङ्गं गगनगङ्गाधौतसौधशृङ्गं शृङ्गाटकनटत्क्रीडाकुरङ्गं कुरङ्गलोचनापाङ्गतरङ्गितानङ्गमनङ्गमदचटुलवारकान्तावशीकृतभुजंगं जङ्गमगाङ्गेयगिरिगुरुशताङ्गं शताङ्गचरणकरपरिचरणपरिणतमत्तमातङ्गं मातङ्गमदजलासिक्तरथ्यानटत्तुरंगं तुरंगखुरदलितकुटिमसमुत्थितपरागपरम्परापिहितपतङ्गं पतङ्गमणिमण्डपमण्डनशुकसारिकाक्रियमाणहरिकथाप्रसङ्ग संगतनिगमहृदयान्तरङ्गं श्रीरङ्गम् । किं ब्रूथः---'अस्त्यसकदवलोकितमध्यासितं च ।
सह्यक्ष्माधरतुङ्गशृङ्गघटितप्रालम्बमानोल्लस___ कावेरीपरिवाहरश्मियुगलीपर्यन्तपर्यत्रिका । मन्ये रङ्गपुरीति यत्र भगवान्वातूलतूलाञ्चिते
___ तल्पे कल्पितकौतुकः कमलया दोलासुखं ढौकते ॥ २०८ ।। ततस्ततः' इति । कदाचन किल कमलाहृदयकमलभृङ्गराजस्य रङ्गराजस्य चैत्रोत्सवावलोकनप्रसङ्गावसंतकसंतानकप्रमुखैः प्रियसखैः सह रङ्गनगरी गतः । तत्र तैस्तैरुत्सवैरमन्दकन्दलितमानन्दमनुभवन्कतिचन दिनान्यनैषम् । एकदा तु कलकलायमानकोकिलकुलकण्ठगर्जिततर्जितपथिकजननयनबाप्पधारापूरपूरितसरणीषु मधुमदचपलमधुकरतरलबकुलमुकुलगलितमकरन्दधोरणीषु चन्दनमरुदान्दोलितलताकुसुमपरागपुलिनशवलितासु कुसुमावचयकुतुकपौराङ्गनाचरणचक्रमणरणन्मणिमञ्जमञ्जीरमञ्जुलरवाकष्ट
१. 'निमनं' ख. २. 'अवनमव्य' ख. ३. 'चरत्' ख. ४. 'पगङ्गना' ख.
For Private and Personal Use Only