SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । ५९ परंतु श्वशुरकुलमाकुलयितुं तस्याः पतिहतकेन केवलं विचेष्टमानेन भ वितव्यम् । तथाहि । मृष्टान्नेषु मृषारुचिः सुवसने दर्पादिवानादरः सान्त्वोक्तौ कुटिलोक्तयः किल सुहृद्वावेऽपि सासूयता । प्राप्तेपूत्सववासरेषु च पुनः सद्यः प्रयाणोद्यम स्तज्जामातृपदाङ्कितो न कुरुते किंनाम दुश्रेष्टितम् ॥ २०६ ॥ इति । प्रकृतिरेवेयं मूर्खाणां यत्त्रस्तुतेषु प्रतीपाचरणम् । किं ब्रवीषि - 'इमा - मपि पत्रिकां शृणोतु वयस्यः इति । (साशङ्कम् ।) सखे, विभेमि श्रोतुम् । (पुनः सधैर्यम् ।) किमितोऽधिकं दारुणं भविष्यति । वाचय वाचय । किं वाचयसि --- ' स्वस्ति समस्त विलासिनीजनमस्तकमणिस्तो मनीराजितचरणनखमण्डलाय विटमण्डलाखण्डलाय युवतिहृदयानन्दकन्दाय मुकुन्दाय | सादरमिदमाकलनीयं वयस्येन वचनं बालमित्रस्य वीतिहोत्रस्य । मा प्रस्थिता प्रियतमेति कृथा विषादं प्रागेव सा पुनरुपैति गृहान्प्रदोषात् । मा भारती मम मृषेति च जातु शङ्का ज्योतिर्विदां व्यभिचरन्ति वचांसि नार्थात् ॥ २०७ ॥ तत्कतिचिदेव कालं सोढव्यः संतापः' इति । ( विहस्य |) सायमागन्तुमेव किल महोत्सवमप्यनादृत्य पत्या तामादाय प्रातर्गतम् । किं ब्रवीषि - 'वयस्य, मा मैवम् । न खलु दैवज्ञा मृषाभाषिणो भवन्ति । तदा प्रदोषं प्रतिषालनीयमेव' इति । किमेवमपि वक्तव्यम् । प्रतिपाल्यत एव यावत्प्राणधार - णम् । किं वीपि - 'किं नाम करणीयम् । अकारणवैरिणा दैवेन दारुणमस्मासु त्रिष्वपि प्रदर्शितम् । अत्र भवितव्यतैव भगवती प्रभवति' इति । भवतु । कश्चन कथाप्रसङ्गः प्रस्तूयतां वासरशेषमतिवाहयितुम् । (इतरेतरमवलोक्य ।) किं बूथः — 'किमप्रस्तुतेनान्यकथा प्रस्तावेन । यदेव तावदाकर्ण - १. 'मिष्टान्नेषु' ख. २. 'किं वाचयसि' क-पुस्तके नास्ति. ३. 'बाल्य' ख. ४. 'वृथा ' ख. ५. 'नार्थम्' ख. ६. 'सोढव्याः संतापा:' क. ७. 'मागतमेव' क. ८. 'तावत्' क. ९. 'थः ' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy