________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
राजा-वयस्य, जयति भ्रमरगुणः पुष्पबाण इक्षुचापो मन्मथः यस्यार्धनारीश्वररूपा विजयपताकेति पद्यार्थः । विदूषकः-(सशिरःकम्पम् ।) जुज्जइ । (क) द्वितीया
कैरवणिद्दाभङ्गे चओरतिहाणिवारणे अ पडु ।
सो को वि जअउ देवो पेक्खन्तणिडालपुरुसमौलिमणी ॥४२॥(ख) विदूषकः-एदस्स पज्जस्स अत्थो वण्णीअदि । (ग) राजा-कथमिव । विदूषकः-कैरवविआसआरी चकोरतित्तिआरी भअवं तम्स तिणतस्स सिहामणी चन्दो जअइ ति । (घ)
मत्री--सम्यगुक्तः पद्यार्थो भवता ।
विदूषकः-(सगर्वम् ।) पुत्वपजस्स वि मह अत्थबोधो जादो जेव्व । वअस्सेण अत्थो वण्णीअदि ण वेति तुहि ठिदम् । (ङ)
मन्त्री-(विहस्य ।) कः संदेहः ।
विदूषकः-अमच्च, किं उवहससि मं । एदं सुणादु भवं । धरणीए विअ मह घरणीए अनक्खराए वाआए वि मह अत्थबोधो होइ । (च)
(सर्वे हसन्ति ।) (क) युज्यते । (ख) कैरवनिद्राभङ्गे चकोरतृष्णानिवारणे च पटुः ।
स कोऽपि जयति देवः पश्यन्निटालपुरुपमौलिमणिः ॥ (ग) एतस्य पद्यस्यार्थो वर्ण्यते । (घ) कैरवविकासकारी चकोरतृप्तिकारी भगवान् तस्य त्रिनेत्रस्य शिखामणिश्चन्द्रो जयतीति ।
(ङ) पूर्वपद्यस्यापि ममार्थबोधो जात एव । वयस्येनार्थो वर्ण्यते न वेति तूष्णीं स्थितम् ।
(च) अमात्य, किमुपहससि माम् । एतच्छृणोतु भवान् । बरण्या इव मम गृहिण्या अनक्षराया वाचाया अपि ममार्थवोधो भवति ।
For Private and Personal Use Only