SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २ ) श्री हेमचन्द्राचार्यमन्थावली: श्रीमद्बाहडसङ्घपो विजयते येनायमाप्तः सुतः || ५ || साजननी जिनेश्वरमहाभक्त्युल्लसन्मानसा सद्दानत्रततत्परा मतिमती सौभाग्यशीलालया । नित्यं जीवदयाकुला गुणनिधिः प्राप्तो ययाऽसौ महान् सत्पुत्रः कुलमण्डनं श्रुतपरः सद्भूरिभाग्योदयः ॥ ६ ॥ संहृष्टाः सुहृदः समागतरुचो धन्यं कुलं ख्यातितं मन्यन्ते गुणशालिनि प्रियसुते संजात एवातुले । वित्तापूर्णकृतार्थिनः समुदितप्रख्यात सद्भूतयो धर्माधर्मविचारणैकनिपुणाः शीलोल्लसन्मानसाः किं धात्रा कृत एष निर्जरतरुः चिन्तामणिर्वाऽथवा किं वा कामगवी कृता जनपदे किं तोयदो वाऽपरः । कामो मलयाचलः किमथवा किं वा सुमेरुर्महान् क्षीरोदः किमुवा कलानिधिरहो कि भास्करः सद्गुणैः ||८|| यस्याङ्गे घटितं त्वयः सुकनकं संजायते नेकशः सोऽयं वा किमुवा जिनेश्वरमहाभक्तः कलौ निर्मितः । कि कर्णः किमुवा विरोचनसुतः किं वाऽर्जुनो विक्रमी प्राहुर्यस्य बुधा: सुजन्मकरणे ह्येवं शुभैर्लक्षणैः ॥९॥ ॥ युग्मम् ॥ एतैरुक्तमिदं सुनामकरणं यन्निश्चितं मण्डनस्त्वित्येवाद्भुतरामणीयकयुतं तत्सार्थकं सन्ततम् । कर्तृत्वं कुरुते हि मण्डनविभ्रुर्नामानुरूपं महत् बालत्वादि विवेक सत्यविमलं तद्वर्ण्यते वै मया ॥ १० ॥ बालत्वे स चकार खेलनमथो नानाविधैः क्रीडितैः साकं सच्छिशुभिस्ततोऽधिकवपुः किञ्चित्प्रबुद्धः शनैः । विद्यारम्भमत करोत्यनुदिनं प्रज्ञान्वितः सादरः पाठज्ञस्तु यथाक्रमं विदितवाकाव्याभिधानानि च ॥ ११ ॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy