________________
Shri Mahavir Jain Aradhana Kendra
?
८
श्री अलङ्कारमण्डनम्.
चन्द्रविम्बमानं ते वदनं मृगलोचने ! | सुधास मानवचनैर्यज्जीवयसि मामिह ॥ २१ ॥ अत्र ' समानम्' इति ॥
हतवृत्तम् - लक्षणहीनमप्राप्तगुरुभावान्तलघु रसप्रतिकूलवृत्तं च । क्रमेणोदाहरणानि -
लक्षणहीनं यथा
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
कथितादं यथा
जगत्युदारः प्रसरीसरीति गुणगणस्ते शशिकान्तितुल्यः । यथा खेरंशुचयो विचित्रचरित्रकारी कमलोदरेषु ॥ २२ ॥ अत्र ' गुणगण' इति ॥
अप्राप्तगुरुभावान्तलघु यथा
अभ्युदिते दिवसेश्वर बिम्बं नश्यति प्रतिदिशं तिमिरौघः । विजृम्भते परिमल: कमलानां शोभते भ्रमरगुञ्जितमेव ॥ २३ ॥ अत्र ' व ' इति ॥
रसप्रतिकूलवृत्तं यथा
किन्नरकण्ठविडम्बनगीता चन्द्रकरव्रजभासुरहासा | मन्मथबाणसमान विलासा मुग्धवधूरियमेति सुवेषा ।। २४ ।। अतद्वृत्तं शृङ्गारे हास्यप्रदम् ॥
पतत्कर्षम् - पतितः प्रकर्ष आरम्भवैचित्र्यं यत्र तत् । यथा-
प्रस्फुरत्तरलचन्द्रचन्दनव्याकुलीकृतविलोललोचना |
कम्पते सपदि सा तु कामिनी मन्मथेन विरहेऽतिपीडिता |२५| अत्र प्रथमार्द्धे दार्व्यम्, अपराद्धे शैथिल्यम् ॥ विसन्धिः - वैरूप्यं विश्लेषोऽश्लीलता च । अनुक्रमे णोदाहरणानि - वैरूप्यं यथा
अत्यन्तं मृदुचाङ्गया नन्विन्द्रोऽपि प्रलोभितः । किं नास्ति चन्द्रमस्यद्य सम्पूर्णे प्रियदर्शने ॥ २६ ॥
For Private and Personal Use Only