________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्री अलङ्कारमण्डनम्.
निरर्थकम् - अर्थहीनाक्षरकृतपादपूरणमात्रम् । यथायत्करोत्करभीतानामालिङ्गत्यबला स्वयम् ।
वन्देऽहं कुमुदानन्दं सदैव हि च वै तु हीति ॥ १६ ॥ विरुद्धम् - असकृदुक्तमात्रमेवान्यथामतिप्रकाशकम् । यथासदा सुखं तव गिरा कार्याचन्तां करोषि मे । सम्बन्धाय कुलीनानां मतिस्तव महामते ! ॥ १७ ॥ अत्र 'सदा असुखम्, अकार्यचिन्ता, कुलीनानां सम्बन्ध:सम्यग्बन्धनम्' इति प्रतीतिः ।
॥ इति पददोषाः || अथ वाक्यदोषाः
७.
उपहतलुप्तविसँगै न्यूनाधिककथितपदं च हृतवृत्तम् । पतत्प्रकर्षविसन्धी विरुद्धवर्ण समाप्तपुनराप्तम् ॥ ५॥ भग्नप्रक्रममक्रममर्धान्तरैकवाचकम् । (?) अनभिहितवाच्यं प्रसिद्धिहतमपदस्थ पदसमाससंकीर्णे । गर्भित मतपरार्थमभवन्मतयोगं तु दुर्वाक्यम् || ६ || उपहत लुप्तविसर्गम्-लुप्तविसर्गता विसर्गस्योकारत्वं च । यथामन उद्यमसक्तं ते हरिध्यानाय केवलम् ।
मन्त्रो विचित्रो भवतो राजते देव ! नित्यशः ॥ १८ ॥ न्यूनपदं यथा
चन्द्र ! वारय तवांशुमालिकां यक्षिणोति किल बालिकामिमाम् । नोचितं तु भवतां शुभस्थितेरध्वनीनसदृशां प्रपीडनम् ॥ १९ ॥ अत्र ' भवताम्' इति वचसा ' तव' इति न्यूनम् ॥ अधिकपदं यथा
अयं युवा मन्मथमूर्त्तिकान्तस्त्वमेव कान्ताऽस्तु समागमोऽद्य । ततो युवां प्रेम परस्परं स्याद्यथा रथाङ्गाभिधयोरनल्पम् ॥ २० ॥ अत्र ' मूर्त्तिः' इति ॥
For Private and Personal Use Only