________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagauti ya mandir
www.kobatirth.org
सख्योऽपि रुदत्यः पृष्ठतो लग्नाः । तां रुदती स्खलत्पादों दृष्ट्वा रक्षकेण गत्वा राज्ञः प्रोक्तम्-'देव ! कथमेवं स्त्रीहत्या गृह्यते ?, सा च एकशस्तवाग्रे किमपि विज्ञपयितुमायाति' । राज्ञोक्तम्-'सा मम दृष्टौ मा आवा. सीत् , परं यदि स्त्रीहत्या चिन्त्यते तदा सा स्वयमेव पातालमूलनाम्नि अन्धकूपे पततु । यदि न पतति तदा यथा तथा विनाश्येव' । इति राजादेशं प्राप्य रक्षक: कुमायें कथयामास । ततः सा 'हा मातः ! हा तात ! हा मलयकेतुभ्रातः ! कथं निरपराधा हन्यमानाऽस्मि ?' इति विलपन्ती लोकेषु शोकाकुलेषु रक्षकवृताsन्धकूपसमीपं गता । 'सर्वज्ञः शरणम् , महाबलश्च मे शरणम्' इति वदन्ती विद्युज्झात्कारं दर्शयन्ती कूपे झम्पां ददौ । सर्वः कोऽपि 'हा हा !' कुर्वन् स्वस्थानं ययौ । रोज्ञी राजा च हृष्टौ । रात्रौ राज्ञा मन्त्रिणमाहूयः प्रोक्तम् - "सी तावद् दुष्टा मृता । अथ स्वयंवरार्थमाहूता राजानो निषिध्यन्ते । 'अकस्मात् कन्या मृता' इति ज्ञाप्यते । अत्रार्थे हितकारिणी कनकवत्यपि पृच्छ्यते" । इत्युक्त्वा मन्त्रिणा सह तद्गृहं ययौ। । द्वारं दत्तं दृष्ट्वा कुश्चिकाच्छिद्रेण यावत् पश्यति तावता तां कनकवती हर्षेण हस्ते गृहीत्वा तमेव हारं प्रति इति वदन्तीं ददर्श-' हे हार ! त्वं महाभाग्येन मम करे चटितोऽसि । त्वत्प्रसादेन पूर्वभववेरिणी सा मलयसुन्दरी भव्यं निपातिताऽस्ति !' इति श्रुत्वा राजा 'वश्वितोऽस्मि' इति वदन् मूछितः पपात । सर्वे लोका मिलिताः । चन्दनजलैः सिक्तः सचेतनः कपाटद्वयं हस्ताभ्यां कुट्टयन् बभाषे-रे: पापिन्या हारं स्वयं
गद्यबद्ध| श्री मलयसुन्दरीकथा ॥
१. कनकवती । २ मलयसुन्दरी । ३ मारिता ।
For Private And Personal Use Only