SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit गद्यबद्धश्री मलयसुन्दरीकथा ॥ ॥ २२ ॥ रात्रौ मयि समीपे स्थितायां लक्ष्मीपुजनामा हारः कनकवतीकण्ठेऽपतत् । कौतुकेन तया मया च आकाशे वीक्षितम् , परं न कोऽपि क्षेप्ता दृष्टः । ततस्तयाऽहं भणिता- कस्यापि हारस्वरूपं न प्रकाश्यम्' । मया प्रपन्नम् । ततः सा हारं संगोप्य तदेव महासाहसयुक्ता मया सह श्रीवीरधवलपार्श्व गता । प्रोचे च-"प्राणेश ! किमपि वक्तुं प्राप्ताऽस्मि, अवसरे विलम्बो न युक्तः । शृणु, पृथ्वीस्थानपुरे सूरपालो राजा, तस्य महाबलः पुत्रः । तस्य मानुषमेकैकं मलयसुन्दरीपाश्चे समेति । एतया लक्ष्मीपुश्रहारस्तस्मै दत्तोऽस्ति । इति कथापितं च'स्वया सर्वसैन्येन स्वयंवरे समेतव्यम् , तव स्वजनराजानोऽपि बहवो मिलिष्यन्ति । त्वयेदं राज्यं ग्राह्य, अई च परिणेतव्या, हारप्रभावेण सर्व सेत्स्यति' । एषा मुग्धा दृश्यते, परं चरित्रं विषममस्ति ! । मया सम्यग् ज्ञात्वा हितार्थ कथितमस्ति । चेन विश्वासमतदा हार एव याच्यताम्" । इत्युक्त्वा राजानं कोपाकुलं कृत्वा गता । राज्ञा तदा चम्पकमालामाहूय सा वार्ता प्रोक्ता । तयाऽप्युक्तम्-' यदि हार न दत्ते तदा सर्व सत्यमेव' । कन्यापि तदेव आहूता । हारे याचिते सा चकितचित्ता आह-'तात : हारो मत्याचे नास्ति, स केनापि अपहृतः । तदा राज्ञा कनकवत्याः कथितं सत्यमेव मन्यमानेन रुष्टचेतसा प्रोक्तम्-'रे पापे ! स्वं मुख मा दर्शय' । सा गता । राज्ञा चिन्तया रात्रिरतिक्रान्ता । प्रातस्तलारक्षमाहूय प्रोक्तम्-'भो ! मलयसुन्दरीं गृहीत्वा वध्यभूमौ निपातय ' । इति श्रुत्वा विस्मितो दुःखितो 'राजादेशः प्रमाणम्' इति वदन् गत्वा कन्यां प्रति रुदन प्राह । साऽपि श्रुत्वा व्याकुलचिता ' किं मया विनाशितम् !' इत्यादि जल्पन्ती समुत्थिता । For Private And Personal use only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy