SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गद्यबद्धश्री मलयसुन्दरी कथा ॥ ॥ २०॥ इत्युक्त्वा कुमारः स्वस्थानं गत्वा, रात्रौ खड्गमादाय, दीपच्छायामाश्रित्य स्थितः । अर्धरात्रे गवाक्षमार्गेण एकः करः प्राप्तः । स च इतस्ततः परिभ्रमति स्म । कुमारेण चिन्तितम्- 'कङ्कणभूषितः कस्याश्चिद् देवतायाः करोऽयं घटते, सा अदृशाऽस्ति, यद्यत्र हस्ते प्रहारं दास्ये तदा सा यास्यति । परं हस्तमेव आरोहामि । इति ध्यात्वा तमेव आरुरोह । हस्तारूढो गगने चचाल । तं पातयितुं हस्तेऽत्यर्थ कम्पमाने सति द्वाभ्यां हस्ताभ्यां वाढतरं हस्तं गृहीत्वा स्थितः । अग्रे देवी काचिद् रोपारुणनेत्रा प्रत्यक्षीभूता । कुमारेण साहसं धृत्वा सा मुष्टिप्रहारेण हता । तत आरटन्ती दीनवदना करुणस्बरं मुहुर्मुहुरवदत्-'कृपानिधे : मुश्च मुश्च' । अथ कारुण्यात् कुमारेण आशु सुरी कराद् मुक्ता । सा देवी नष्टा । कुमारोऽम्बरात् पतितः, परं कस्यचित् सहकारस्योपरि प्राप्तः, तेन शरीरे तादृक् पीडा नाभूत् । यावत्तत्र स्थितो विविधचिन्तासमुद्रे पतितो देवोपालम्भान् दत्ते तावत् कोऽपि महान् अजगरः भूघर्षणशब्दं कुर्वन् वृक्षमूलमागच्छन् शब्दानुसारेण ज्ञातः, दृष्टश्च । चिन्तितं तेन-'नूनम् अनेन कोऽपि जीवो गिलितः, तं च हन्तुं वृक्षस्कन्धे आस्फालयितुमागच्छति । तत एनं विदार्य गिलितं मनुष्यादिकं बहिष्करोमि । इति ध्यात्वा वृक्षादुत्तीर्य वृक्षतले निश्चलतया स्थित: । यावताऽजगरो वृक्षस्कन्धे वेष्टनं कर्तुं लग्नस्तावता कुमारेण तस्यौष्टपुटं गृहीत्वा बलाद् यत्नेन विदारितः । तन्मध्याद् एका स्त्री निर्गता अचैतन्येऽपि 'महाबलो मे शरणम् ' इति जल्पती । कुमारः स्वनामश्रवणेन विस्मितः । 'केयम् ?' इति विशेषतस्तस्या मुखं पश्यन् मलयसुन्दर्याः सदृशं दृष्ट्वा महतादरेण वायु विक्षयति स्म । For Private And Personal use only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy