________________
Shri Mahavir Jain Aradhana Kendra
wwww.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
गबल- अहो! लावण्यलीलाऽस्य कटाक्ष रूपमद्भुतम्। सा धन्या मन्यते कन्या यस्या भर्ता भवेदसौ॥१॥ श्री मलय
____ एवं चिन्तयन्तीं निनिमेषदृशा च पश्यन्ती कुमारोऽपि सहसा ददर्श । दध्यौ चसुन्दरी कथा || केयं किं देवता कापि मानवोत्वं समागता? परिणीताऽथवा कन्या ? लावण्यामृतवाहिनी॥१॥
तस्मिन्नेवं चिन्तयति सति सा कुमारी च्छेकतया कागदे स्वरूप लिखित्वा तत्सम्मुख चिक्षेप । सोऽपि तं वाचयामास-'अहं श्रीवीरधवलपुत्री मलयसुन्दरी कन्याऽस्मि । त्वां दृष्ट्वा त्वामेव वरम् अभिलषामि' । इति वाचयन्त कोऽपि त्वरितमागत्य तदीयमयों बभाषे-'कुमार! शीघ्रमागम्यताम् । सार्थश्चलति, तस्मात् शीघ्रमागम्यताम्' । ततः कुमारस्तेन सहितः पश्चाद् विलोकयन् स्थानं ययौ। ततो मन्त्रिणा सज्जतां कुर्वतामेव रात्रिमुख जातम् । 'अथ अर्धरात्रिमतिक्रम्य चलिष्यते' इति वार्ता मन्त्रिषु कुर्वत्सु कुमारेण चिन्तितम्-'तया तु च्छेकतया निजस्वरूपं ज्ञापित, परं मया तस्याश्चेतसि 'निवृतिमनुत्पाद्य कथं गम्यते ?, अत एकदा तत्र गन्तव्यमेव' । इति विचिन्त्य कुमारः शीघ्र राजभुवनमागम्य विद्युदुत्क्षेपकरणेन प्राकारमुल्लङ्घय मध्यमाजगाम । तत्रासौ नृपवल्लभया कनकवत्या दृष्टः । प्रोक्तश्व-कस्त्वं भोः । तेनोक्तम्-'अहं लेखहारको मलयसुन्दर्याः, लेखं दास्यामि ताम् , सा क्वास्ति ? । तयोक्तम्-'क्षणमत्र विश्रम्यताम् , अयमपि जनस्तव भक्तिकारकोऽस्तु !'। तेनोक्तम्-'लेखमपयित्वा बलितः सर्व रम्यं विधास्ये' । ततस्तया दर्शितो मार्गः । अग्रे गत्वा उपरितनाऽपवरकान्तस्थितां योगिनीमिव
१ चातुर्येण । २ शान्तिम् । ३ मलय सुन्दरीमातुः सपल्या।
For Private And Personal use only