SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प०२ महाविद्याविडम्बनम् । वा । प्रमेयत्वादिधर्मो वेत्यर्थः । आद्यं पक्षं दूषयति-नाद्य इत्यादि । हेतुस्वरूपादधिकं यड्याप्यत्वं तदनङ्गीकारे व्याप्यत्वं व्याप्तिः तस्या असिद्धिरेव । अयमभिप्राय:--साधनस्य हि व्याप्यत्वं साध्येन स्यात् । तत्र यदि साधनमात्रस्वरूपमेव व्याप्यत्वं स्वीक्रीयेत, तर्हि हेत्वाभासस्यापि व्याप्यत्वं भवेदिति व्याप्यत्वस्यासिद्धिरेव । द्वितीयं पक्षं दूषयति-न द्वितीय इति । प्रमेयत्वादिव्यतिरिक्तस्य यत्तच्छब्दार्थस्य विचारासहत्वेन निर्वक्तुमशक्यत्वात् ।। ____ यत्तच्छब्दार्थो मेयत्वादिकमेव । तस्य भावः तत्त्वं व्याप्यत्वमित्यपि न । तस्य भावः किं तस्य धर्ममात्रं धर्मविशेषो वा । आये मेयत्वस्य सर्वव्याप्यतापत्तिः । द्वितीये तदनिरुक्तिरिति ।। (भुवन० )-यत्तच्छब्दार्थः इति । यत्तच्छब्दार्थो मेयत्वादिकमेव नापरं किमपीत्यर्थः ।, परोक्तं विकल्पयति-तस्य भाव इति । तस्य मेयत्वादेर्भावः । आद्यविकल्पमुत्थापयति-आये मेयत्वस्येति । यदि मेयत्वस्य तद्भावो व्याप्यत्वरूपो धर्ममात्रमभिधीयते, तदा मेयत्वस्य सर्वधर्म प्प्यतापत्तिः स्यात् । अयं भावः तस्य भावो व्याप्यत्वमित्युक्तम् । तत्र यदि व्याप्यत्वं मेयत्वस्य धर्मः, तर्हि मेयत्वं व्याप्यं जातमेव । यच्च व्याप्यं तद्धि व्यापकेन व्याप्यते एवेति मेयत्वस्य व्याप्यरूपत्वेन घटत्वपटत्वादिसर्वधर्मैया॑प्यता प्रसज्येत । नास्ति च मेयत्वस्य व्याप्यत्वम् । तस्य, व्यापकरूपत्वात् । तस्मान्न प्राच्यः पक्षः क्षोदक्षमः । द्वितीयं निरस्यति-द्वितीय इति । तस्य मेयस्वादिसंबन्धिनो विशेषधर्मस्य निर्णीतस्य अप्रतिपादनादनिरुक्तिः। अथ अविद्यमानविपक्षत्वे सति सपक्षे सत्त्वं मेयत्वादीनामभिधेयत्वादिव्याप्यत्वमिति मन्यसे।तन्न । अविद्यमानविपक्षत्वं नाम विपक्षाभावः । तथा च किं केवलान्वयिनि विपक्षः प्रमितो न वा। आये विपक्षाभावप्रतीतेर्बाधितत्वेन व्याप्यत्वासिडिः। द्वितीयेऽपि विपक्षाप्रमितौ तद्भावप्रमितेाप्यत्वासिद्धिः । (भुवन०)-भूषणसंमतं मतं शङ्कते--अथाविद्यमानेति । विपक्षाभावे सति सपक्षे सत्त्वं यत्तदेव मेयत्वादिहेतूनामभिधेयत्वादिसाध्येन व्याप्यत्वम् । असंभवेन निराकुरुते--तन्नेत्यादि । विकल्पद्वयेऽपि दोषं दर्शयति–आये विपक्षेति । यदि विपक्षः प्रमितस्तर्हि विपक्षस्याभावप्रतीतिर्बाधिता । यतो यो हि मानेन गृहीतः कथं तस्याभावः कर्तुं शक्यः । तस्माद्विपक्षाभावप्रतीतेरभावाड्याप्यत्वं व्याप्तिः, तस्या असिद्धिः । द्वितीयेऽपीति । यदि विपक्षो न प्रमितः, तदा प्रति-- योगिप्रतीतेरभावाद्विपक्षाभावस्य अप्रमितेर्व्याप्यत्वासिद्धिः । किश्च विपक्षाभावस्थानुमित्यङ्गत्वे केवलव्यतिरेक्यन्वयव्यतिरेकिणोविद्यमानविपक्षयोरनुमितिजनकत्वाभावप्रसङ्गः । सपक्षे सत्त्वस्य चानुमितिजनकत्वे सपक्षरहितस्य केवलव्यतिरेकिणोऽनुमितिजनकत्वाभावप्रसङ्गः । एतेन अन्वयव्यतिरेकिण्यपि सपक्षसत्त्वापरपर्यायस्यान्वयस्यानुमितिजनकत्वं निरस्तम् । १ र्यायस्यानु इति घ पुस्तक पाठः । १३-१४ महाविद्या० For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy