SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९६ भुवनसुन्दरसूरिकृतटीकायुतं व्यापकत्वाभावात् । यथा यैव घटे सत्तास्ति न सैव पटे इति । व्याप्यत्वभङ्गस्येति । पूर्वं ह्यभि• धेयत्वादिसाध्यस्य मेयत्वादिसाधनवनिष्टात्यन्ताभावप्रतियोगित्वाभावो व्याप्तिरुक्ता । सा च साध्यसाधनोभयनिष्ठा स्यात् । मेयत्वादिवन्निष्ठात्यन्ताभावप्रतियोगित्वविरहश्च यः साध्यनिष्ठः स साधननिष्ठ इति मेयत्वादीनां यद्व्याप्यत्वं व्याप्तिः, तस्य भङ्गो दुरपन्हव एवेत्यर्थः । Acharya Shri Kailassagarsuri Gyanmandir अथ मेयत्वादिसाधनवन्निष्ठात्यन्ताभावप्रतियोगित्वविरहोऽभिधेयत्वादिसाध्यनिष्ठो व्याप्यत्वमनुमानाङ्गमिति ब्रूषे । तन्न | साध्यस्यैवंरूपव्याप्यत्वावगमेऽपि पक्षधर्मत्वानवगमात् । अवगमे वा अनुमानवैयर्थ्यात् । न च साध्यगतं व्याप्यत्वं साधनगतं च पक्षधर्मत्वमनुमानाङ्गमिति युक्तम् । व्यासिपक्षधर्मतयोः समानाधिकरणयोरनुमितिजनकत्वस्योभयवादिसिद्धत्वात् । 1 ( भुवन ० ) - अस्मन्मते साध्यगतं व्याप्यत्वं, न तु साधन गतमिति पराभिप्रायं प्रकटयतिअथ मेयत्वादिति । मेयत्वादिसाधनवन्निष्ठात्यन्ताभावप्रतियोगित्वविरहो यः एवाभिधेयत्वादिसाध्यनिष्ठः तदेव साधनस्य साध्येन व्याप्यत्वमिति भावार्थ: । ग्रन्थकारः परिहरति-तन्न | साध्यस्येत्यादि । साध्यस्य अभिधेयत्वादेर्यद्यप्येवंरूपं केवलसाध्यगतं व्याप्यत्वमवगतं परं तथापि पक्षधर्मत्वमवगतं नास्ति । पक्षधर्मता च विलोक्यते । यतोऽनुमानस्य द्वे रूपे व्याप्यत्वं पक्षधर्मता च । तत्रान्यतररूपानवगमेऽनुमानमेव न स्यात् । अवगमे वेति । साध्यस्य यदि पक्षधर्मता अवगता तदा अनुमानवैयर्थ्यम् । साध्यस्य पक्षधर्मताव्यवस्थापनार्थमेवानुमानकरणात् । न च साध्येत्यादि । साध्यगतं हि व्याप्यत्वं, पक्षधर्मत्वं च साघनगतमिति भिन्नाधिकरणे व्याप्यत्वपक्षधर्मते अनुमानाङ्गमिति न च युक्तम् । हेतुमाह - व्याप्तिपक्षेति । व्याप्तिपअधर्मतयोः समानाधिकरणयोरेकाधिकरणयोरित्यर्थः । अथ यद्वन्निष्टात्यन्ताभावप्रतियोगित्वविरहः साध्यस्य तत्त्वं व्याप्यत्वम् । तच्च प्रमेयत्वादीनां घटते इति ब्रूषे । तन्न । यद्वन्निष्ठेत्यत्र यच्छब्देन, तत्त्वमि - त्यत्र च तच्छब्देन किं प्रमेयत्वादिस्वरूपं विवक्षितं, तद्धर्मो वा कश्चित् । नाद्यः । हेतुस्वरूपातिरिक्तव्याप्यत्वानङ्गीकारे व्याप्यत्वासिद्धेर्दुर्वारत्वात् । न द्वितीयः । प्रमेयत्वादिव्यतिरिक्तस्य यत्तच्छब्दार्थस्य निर्वक्तुमशक्यत्वात् । I (भुवन० ) महाविद्यावादी शङ्कते - अथ यद्वनिष्ठेति । यच्छन्देन प्रमेयत्वादिहेतवः, तद्वत्सु निष्ट योऽत्यन्ताभावः तस्य यत्प्रतियोगित्वं तद्विरहो यः साध्यस्य । तच्चमिति । तस्य साध नस्य भावः तत्त्वं व्याप्यत्वम् । साधनस्य साध्यवन्निष्ठत्वं व्याप्यत्वमित्यर्थः । विकल्पैः परिहरतितन्न | यद्वदित्यादि । यद्वन्निष्ठेत्यत्र यच्छब्देन तत्त्वं व्याप्यत्वमित्यत्र च तच्छब्देन च किं प्रमेयत्वादिस्वरूपं विवक्षितं तद्धमों वा । प्रमेयत्वादिवम वेत्यर्थः । आयं पक्षं दूषयति--नाद्य इत्यादि । यद्वन्निष्ठेत्यत्र यच्छब्देन, तत्त्वं व्याप्यत्वमित्यत्र च तच्छब्देन किं प्रमेयत्वादिस्वरूपं विवक्षितं तद्धर्मो १ वैयर्थ्यम् । न इति ग पुस्तक पाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy