SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६१ प०१ महाविद्याविडम्बनम् । ६ ( आनं० ) उत्तरमहाविद्यायामेतच्छब्देतरस्थाने शब्दत्वरहितपदं निहितम् । शेषं पूर्ववत् । कथमत्र व्याप्त्यनुगमोऽत्राह-एतयोश्चेति । शब्देतरानित्यत्वं शब्देतरनित्यत्वं शब्देतरकार्यत्वं च कथितविशेषणमनित्येषु सिद्धम् । गगनेतरानित्यशब्दानां शब्दस्य च पक्षतुल्यत्वाव्याप्त्यनुगम इत्यर्थः ॥ ६॥ ६ (भुवन०)-गगनं शब्दत्वरहितेत्यादि । अस्यां महाविद्यायां पूर्वमहाविद्योक्तैतच्छब्देतरपदस्थाने शब्दत्वरहितपदं निदधे । शेषं पूर्ववत् । कथमेतयोात्यनुगमोऽत्राह-एतयोश्चेति । पञ्चमीषष्ठयोमहाविद्ययोरित्यर्थः । एतच्छब्देसरानित्यत्वादिकमिति । एतच्छब्दादितरे ये भावास्तेषामनित्यत्वादिकं धर्ममित्यर्थः । आदिशब्देन एतच्छब्देतरकार्यत्वादिग्रहः । गगनेतरनित्यानां शब्दस्य च पक्षतुल्यत्वान्न तत्र व्याप्त्यभावेऽपि दोषः ॥ ६॥ ७ गगनं गगनेतरनित्यगगनवृत्तित्वरहितैतच्छन्दनिष्टाधिकरणं मेयत्वादिति ॥ गगनेतरनित्ये गगने च ये वर्तन्ते तेषु गगनेतरनित्यगगनवृत्तित्वं धर्मः । तद्रहितश्च धर्मः १ गगनेतरनित्यमात्रवृत्तिवी, २ गगनमात्रवृत्तिा , ३ एतच्छब्देतरानित्यगगनवृत्तिा , ४ एतच्छन्दगगनवृत्तिर्वा । आद्यो गगने व्याहतः । द्वितीयतृतीयौ शब्दनिष्ठग्रहणेन निरस्तौ। चतुर्थस्तु एतच्छन्दानित्यत्वमन्तर्भाव्य सिध्यति । एतच्छन्दनित्यत्वे गगनैतच्छब्दनिष्ठस्य गगनेतरनित्यगगननिष्ठत्वेन तद्रहितत्वानुपपत्तेरित्येतच्छब्दानित्यत्वसिद्धिः । एतच्छब्दनिष्ठाधिकरणमित्युक्ते मेयत्वादिभिरेतच्छब्दनित्यत्वेऽप्युपपद्यमानैरन्तरता स्यात् । तन्निवृत्यर्थं गगनेतरनित्यगगनवृत्तित्वरहितग्रहणम् । गगनेतरनित्यगगनवृत्तित्वरहिताधिकरणमित्युक्ते गगननिष्ठरेकत्वादिभिरेतच्छन्दनित्यत्वे ऽप्युपपद्यमानैरन्तरता स्यात् । तेन्निवृत्यर्थमेतच्छन्दनिष्ठग्रहणम् । (आनं० )-गगनेति । गगनेतरनित्यवृत्तित्वे गगनवृत्तिषु गगनेतरनित्यगगनवृत्तित्वं धर्मः । तद्रहितश्वासावेतच्छन्दनिष्ठश्च तदधिकरणमित्यर्थः । गगनमधिकरणमित्युक्ते शब्दाधिकरणत्वेनार्थान्तरमत उक्तम्-शब्दनिष्ठेति । पक्षतुल्ये कापि साध्यसिद्धिं व्यावर्तयितुमेतच्छब्दनिष्ठाधिकरण. मित्युक्तम् । तथापि मेयत्वादिकं प्रसक्तमप्यावर्तयति-गगनवृत्तित्वरहितति । व्याघातपरिहारार्थगगनेतरनित्यत्तित्वरहितेति । गगनेतरनित्यवृत्तित्वरहितैतच्छब्दनिष्ठाधिकरणमित्युक्तेऽप्रसिद्धविशेषणत्वं, शब्दनिष्ठस्य नित्यवृत्तित्वरहितत्वस्य शब्दानित्यत्वसिद्धेः पूर्व दुरधिगमत्वादत उक्तम्गगनेतरनित्यगगनवृत्तित्वरहितेति । गगनान्यत्वमुक्तरूपं गगनातिरिक्ते सर्वत्रास्तीति साध्यसिद्धिः । व्याप्तिबलादेतच्छब्दगगनमात्रवृत्तिगगनेतरनित्यगगनवृत्तित्वरहितः 'सिध्यन्ननित्यत्वमेतस्य शब्दस्य साधयेदिति तात्पर्यम् । गगने तद्रहितधर्मसिद्धया कथमेतच्छब्दानित्यत्वमत आह १ तयाढत्यर्थमे" इति घ पुस्तक पाठः । २ ‘वृत्तिषु' इति स्यात् (?)। ३ प्रसक्तं व्यावर्तयति' इति स्यात् (?)। For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy