________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं च्छब्देतरा नित्येत्यादि । तथा च घटाकाशान्यतरत्वादेरनित्ये घटे नित्ये चाकाशे वर्तमानत्वेनैतच्छव्देतरानित्यनित्यवृत्तित्वरहितत्वानुपपत्तेरित्यर्थः ।। ___ एतच्छब्देतरानित्यनित्यवृत्तित्वरहितो धर्मः १ एतच्छब्देतरानित्यमात्रवृत्तिर्वा, २ नित्यमात्रवृत्तिर्वा, ३ एतच्छन्दैतच्छब्देतरानित्यमात्रवृत्तिा, ४ एतच्छब्दमात्रवृत्तिा, ५ एतच्छब्दगगनव्यतिरिक्तनित्यमात्रवृत्तिा , ६ एतच्छब्दगगनमात्रवृत्तिर्वा । प्रथमतृतीयचतुर्थपञ्चमा गगने व्याहताः । द्वितीयो ऽप्यनेकनित्यवृत्तिर्वा स्यात्, एकैकनित्यवृत्तिर्वा स्यात् । प्रथमोऽनेकनित्यवृत्तित्वरहितग्रहणेन निरस्तः। द्वितीयोऽनेकनिष्ठग्रहणेन निरस्तः। षष्ठस्तु एतच्छब्दानित्यत्वमन्तर्भाव्य सिध्यति । एतच्छब्दनित्यत्वे गगनैतच्छब्दनिष्ठस्य अनेकनित्यनिष्ठत्वेन तद्रहितत्वानुपपत्तेः ।। ५॥ ___ ( आनं० )-एतच्छब्दस्यानित्यत्वमन्तरेण व्यापकापर्यवसानं दर्शयितुं संभावितप्रकारानाह-एतच्छब्देतरानित्यमात्रवृत्तिवेति ॥ ५॥
(भुवन० )--एतच्छब्दानित्यत्वमन्तरेण साध्यसिद्धेरपर्यवसानं दर्शयितुं प्रथमविशेषणोद्भूतान् षड्धासंभावितविकल्पानाविर्भावयति-एतच्छब्देतरानित्यनित्येत्यादि । १ एतच्छब्देतरानित्यमात्रवृत्तिति । एतच्छब्देतरा नित्यत्वादिरेकैकानित्यमात्रवृत्तिर्घटपटत्वादि । २ नित्यमात्रवृत्तिवेति । नित्यत्वादिरेकैकनित्यवृत्तिरात्मत्वादिर्वा । ३ एतच्छब्दैतच्छब्देतरानित्यमात्रवृत्चिति । एतच्छन्दानित्यान्यतरत्वादिविश्वप्रतियोगिको घटेतच्छब्दान्योन्याभावादि । ४ एतच्छन्दमात्रतिर्वेति । एतच्छब्दत्वादिः । ५ एतच्छब्दगगनव्यतिरिक्तनित्यमात्रवृत्तिवेति । गगनानित्यान्यत्वादिर्विश्वप्रतियोगिक आत्मैतच्छब्दान्योन्याभावादिर्वा । ६ एतच्छन्दगगनमात्रवृत्तिति । एतच्छब्दाकाशसंबन्धादिः । अत्रापि प्रथमतृतीयचतुर्थपञ्चमानां पक्षे व्याघातमभिधत्ते-प्रथमेत्यादि । द्वितीयं द्विधा विकल्पयति-द्वितीयोऽप्यनेकेत्यादि । प्रथमस्य मध्यविशेषणविशिष्टत्वाभावमाख्याति-प्रथमोऽनेकेत्यादि । द्वितीयस्य अन्त्यविशेषणेन निरासमाचष्टे-द्वितीयोऽनेकेत्यादि । पष्टस्य पक्षे सिद्धिं ब्रूते-षष्ठस्त्वेतच्छब्दानित्यत्वेत्यादि । एतच्छब्दनित्यत्वसिद्धौ दूषणमुद्घोषयति-एतच्छब्दनित्यत्व इत्यादि । अयमाशयः । आकाशो नित्यत्वेनोभयवादिनोरपि संमतः । तत्र शब्दोऽपि यदि नित्योऽङ्गीक्रियते, तदा शब्दाकाशसंबन्धादेरनेकनित्यनिष्ठत्वमेव स्यात्, न तु तद्रहितत्वम् । अनेकनित्यवृत्तित्वरहितत्वं चात्र प्रोक्तम् । तस्माच्छब्दस्यानित्यत्वमास्थेयमेवेति ॥ ५॥
गगनं शब्दत्वरहितानित्यनित्यनिष्ठत्वरहितानेकनिष्ठत्वरहितानेकनिष्ठाधिकरणं मेयत्वादिति ॥ एतयोश्च महाविद्ययोरेतच्छब्देतरानित्यत्वादिकमुक्तविशेषणोपपन्नमुपादाय साध्यप्रसिद्धिर्द्रष्टव्या । शेषं पूर्ववत् ॥६॥
१ आत्मशब्दा' इति च पुस्तकपाठः ।
For Private And Personal Use Only