SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५० लोकविशिका प्रत्यर्थनियतत्वाद्, अप्रसिद्धवाग्व्यवहाराणा कुमाराणां गवादिपु प्रत्यर्थनियतो वाग्व्यवहारो यथा मात्रागुपदेशपूर्वक इति । यदुपदेशपूर्वकश्च स सर्गादौ व्यवहारः, स ईश्वरः प्रलयकालेऽप्यलुप्तज्ञानातिशय' इति । तथा परमसामोपेत-परमेश्वरसाधिका उपलक्षणान कर्तृत्वसाधनी च कारिका गीयते एवं'कार्याऽऽयोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः ।। वाक्यात् सङ्ख्याविशेषाञ्च माध्यो विश्वविदव्ययः ॥१॥ इति । ___ तत्र कार्य सकर्तकं कार्यत्वादित्याद्यमनुमानम् । अत्र कार्यत्वाख्यो हेतुः, कालवृत्यत्यन्ताभावप्रतियोगित्वे सति सत्त्वं प्रत्यक्षजन्यत्वेच्छाजन्यत्वादिना च साध्यत्वं अदृष्टद्वाराजन्यत्वस्य विशेषतासम्बन्धावच्छिन्नकारणताप्रतियोगिकसमवायावच्छिन्नजन्यत्वं वा साध्यं अनुकूलतर्कानवतार एवं सन्दिग्धोपाधिना व्यभिचारसंशयम्योत्पादयितुं शक्यत्वात । तथा आयोजनं-कर्म । सर्गाद्यकालीनद्वयणु. कारम्भकसंयोगजनककर्म प्रयत्नजन्यं कर्मन्वाद्, अम्मदादिकर्मवत् । अदष्टं तु नायोजनं दृष्टहेतुमन्तरा प्रयत्नजन्यक्रियात्वम्य च चेष्टात्वान्न सोपाधिकमिदमिति । घृतेश्च । यथा ब्रह्माण्डादिपतनाभावः पतनप्रतिबन्धकप्रयुक्तो, धृतित्वात , उत्पतत्पतत्रिपतनाभाववत् तत्पतत्रिधृततृणादिवद्वा । आदिशब्दाच्च नाशादपि । ब्रह्माण्डनाशः प्रयत्नजन्यः नाशत्वान , पाटबमानपटनाशयदिति । पदाच्च । तत्र पद्यते-गम्यतेऽनेनेति पदम्-व्यवहारः आधुनिकव्यवहारवत् न च कुलालाद्याः तिष्ठन्ति प्रलये । प्रत्ययः-प्रमा, ततोऽपि । यथा वेदजन्यत्रमा कृतयथार्थवाक्यार्थज्ञानजन्या शाब्दप्रमात्वात , आधुनिकवाक्यजशाब्दप्रमावन । श्रुतिः-वेदः, तम्मादपि । यथा बेहोऽसंसारी For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy