SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकप्रिंशिका मात्रभ्य वहिमात्रेण व्याप्तिः, एवं धूमविशेषम्य वद्विविशेषेणेति धूमविशेषप्रतिपत्तौ न वहिमात्रेणान्वयानुस्मृतिः, किन्तु वद्विविशेषेणैव । एवं विशिष्टकार्यत्वदर्शनान्न कारणमात्रानुस्मृतिः, किन्तु तथाविधकार्यविशेषजनककारणविशेषानुस्मृतिः, तदनुस्मृतावत्रान्वयसामर्थ्यादेव कारणविशेषप्रतिपत्तिरिति न विशेषविरुद्धावकाशः । नथाऽन्येनापि प्रमाणद्वयेनाभिमतसिद्धिः माध्यते वार्तिककृद्धिः' यथा महाभूतादि व्यक्तं चेतनाधिष्ठितं प्राणिनां सुखदुःखनिमित्तं रूपादिमत्त्वात तुर्यादिवत , तथा पृथिव्यादीनि महाभूतानि बुद्धिमत्कारणाधिष्ठितानि स्वासु धारणायासु क्रियाम प्रवर्तन्ते अनित्यत्याद् याभ्यादिवन । अविद्धकर्णस्वाह इदं प्रमाणयमीलितसिद्धये-'द्वीन्द्रियप्रायाऽमाझं मत्यधिकरणभावापन्नं बुद्धिमत्कारणपूर्वकं स्वारम्भकावयवसनिवेशविशिष्टत्वान घटादिवद्, वैधयंग परमाणब इति । तथा तनुभुवनकरणोपादानानि चेतनाधिष्ठितानि स्वकार्यमारभन्ते इति प्रति जानीमहे रूपादिमत्वात , यद्यद् रूपादिमत् तत्तच्चेतनाधिष्ठितं स्वकार्यमारभते यथा तन्त्वादि, रूपादिमच्च तनुभुवनकरणादि कारणम् , तम्मात् चेतनाधिष्ठितं स्वकार्यमारभते । योऽमो चेतनः तनुभुवनकरणादरधिष्ठाता म भगवानीश्वर ' इति । उद्योतकररत्याह अनुमानमन्यदेव-'भुवनहेतवः प्रधानपरमाण्वइष्टाः स्वकार्योत्पत्तावतिशयबुद्धिमन्तमधिष्ठातारमपेक्षन्ते, स्थित्वा प्रवृत्तः , तन्तुतुर्यादिवत्' इति । प्रशस्तमतिस्तूदाजहार अन्यथैव-'यथा सर्मादौ पुरुषाणां व्यवहारोऽन्योपदेशपूर्वकः , उत्तरकालं प्रबुद्धानां For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy