SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७० लोकविंशिका त्याद्यपि च जीवस्यैवैकस्य तथा तथा भावोत्पादज्ञापनेन निविण्णतां जनयति वक्ता श्रोतुः । तथोच्यते चार्षे ऽपि 'माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव' ।। [प्रशम०] इत्यादि । तथा 'सर्वाणि रूपाणी 'ति तु आत्मनोऽनादि संसारभ्रान्ति दर्शयन्निर्वेदयति वक्ता भवात् । आर्षऽपि-'न सा जाइ न सा जोणी न तं ठाणं न तं कुलं । न जाया न मुआ जत्थ सव्वे जीवा अणंतसो' ।। इत्यादिवचनमुपलभ्यत एव । परं यदा धीरत्वं केवलज्ञानादिना युक्तत्वमाविर्भवति तदैवैषामभिभव इति ज्ञाप्यते । 'तावानस्ये 'त्यादिनापि कर्मप्राबल्यं जगद्वैचित्र्यादिनोपदर्यात्माख्यपूरुषस्याऽऽम्नायतेऽभिसम्पन्नता । — सर्वाणि भूतानि पादोऽस्ये 'त्यादि तु कर्मप्राबल्यानवधिताप्रदर्शनपरम् । तथा ' ममैवांश' इति तु स्वकीयां शुद्धां दशामाश्रित्य वक्ति कोऽपि-यत् जीवभूतः सारभूतो जीवत्वख्यापको वा सनातनोऽक्षरानन्ततमो भागः, स ममांश एव । यद्वा-जीवलोके जीवनवदाधारभूतः केवलात्मकः सनातनो बोधः , सोऽनन्तज्ञानदर्शनचारित्रसुखवीर्यरूपस्य ममांश एवेति । महिमा चानेनाख्यायि केवलवत्त्वेन स्वस्य, अत एव च 'जीवभूत' इति । अन्यथा 'सर्वं खल्विदं ब्रह्मे 'तिवचनात् स्यादनर्थकता तस्य । तथा 'एकस्तथे 'त्यनेनापि जीवात्मनोऽपि स्वकर्ममात्रसहचरिततयाऽशरणतामेकत्वं प्रदर्य 'सर्वभूते 'त्यादिना 'आत्मवत् सर्वभूतेषु यः पश्यति स पश्यती'त्यादिश्रुत्युदितप्रवृत्तिमत्तां निरूप्य दुःखरहितत्वं ज्ञापयति कश्चित् कश्चित् । अत एव च 'दुःखफलेने' त्युच्यते । अन्यथा कर्मफलेन सुखदुःखयुगलेनेत्याद्यभिधेयं स्यादित्यादिः स्याद्विचारः सम्यग्दशामेव परं सः। यदपि कृशानुकणाख्यानात् कृशानुकणवद्भीताः For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy