SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविशिका विशेषः, तस्या अपि स्वयं निरवयवता, समुदायापेक्षयैवावयवता यतस्तस्याः , तथा चापेक्षिकी स्यादेवं सा, यतो न विद्यते परस्परावयवसम्बद्धता, तत् परमार्थतोऽसत्यप्यंशता कल्पितैवेति प्राप्तं, वनस्पतेरिव व्यपदेशे च तथा वृक्षविशेषाणामिव जीवानां न कोऽपि विरोधः, आपेक्षिकवादाभ्युपगम एव च दोषो भवतो महानापद्यते । एतेन यदुच्यन्ते___ अंशो नानाव्यपदेशादन्यथा चापि दास-कितवादित्वमधीयते एके । मन्त्रवर्णाच । अपि च स्मयते । प्रकाशादिवन्नैवं परः । स्मरन्ति च । अनुज्ञापरिहारौ देहसम्बन्धाज्योतिरादिवत् । असन्ततेश्चाव्यतिकरः । इति सूत्राणि । सोऽन्वेष्टव्यः स विजिज्ञासितव्य इति ब्रह्मदासा ब्रह्मदासा ब्रह्मैव इमे कितवा इति, त्वं स्त्री त्वं पुमानसि त्वं कुमार उत कुमारी त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः इति, सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिभवदन्यदास्ते इति, नान्योऽतोऽस्ति दृष्टा इति, तावानस्य महिमा ततो ज्यायाँश्च पुरुषः पादोऽस्य सर्वभूतानि त्रिपादस्यामृतं दिवि । तथा ममैवांशो जीवलोके जीवभूतः सनातन इति, एकस्तथा सर्वभूतान्तरात्मा न लिप्यते दुःखफलेन बाह्य ' इत्यादिश्रुति-स्मृतिवाक्याद्याश्रित्य विहितानि सङ्गतान्येव तानि । यद्यपि च नैतानि वाक्यानि केवलविशेषरूपेऽपि विरुद्धानि । यथाहि- सोऽन्वेष्टव्य' इत्यत्र श्रुतपूर्वामवस्थां शुद्धां जीवस्य प्रत्यभिज्ञाप्य उपदिश्यते जीवस्य ज्ञानगुणलक्षणत्वाज्ज्ञानवत्त्वेऽपि किमेते आचरन्त्येवमिति कर्मप्राबल्यं विचारयन् ब्रयात् कश्चन यदुत-ब्रह्मदासा' इति, वचनव्यत्ययस्तु छान्दसत्वात् त्वं स्त्री त्वं पुमानसी' For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy