SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका इति न तैर्व्यभिचारः । इप्टेन यशःकीर्त्यादिना न सिद्धसाध्यतेत्याहुः- तं दिट्ट 'मित्यादि । भवति च कर्पुकाणामपि धान्यादौ दृष्टफले सत्यपि परलोकगतविचित्रफलोत्पादः , अन्यथा तस्य तेषामाकस्मिकमेवापद्यतेति । अन्ये त्वेवमाहुः-दानादीनां सफलत्वे सिद्धे यशःकीर्त्यादीनामनैकान्तिकत्वात् सिद्धयत्येवादृष्टफलकतेति । अदृष्टफलकतामन्यथानुपपत्त्या साधयन्ति तदभावम्मि य मुत्ती पावइ नियमेण सव्वसनाणं । एवं च भवसमुद्दो ण घडइ पञ्चक्खदिट्ठो वि ॥१०४।। सर्वं चैतदहष्टाङ्गीकार एव युज्यते इति तत्साधयितुमाहुः-- तुल्लफलमाहगाणं तुल्लारंभाण इट्टविसयम्मि । दोसइ य फले विसेसो कहंसअहिट्ठऽभावम्मि ।।१०५।। ' तुल्यफले ' त्यादिनादृष्टस्य विशेषहेतुतामाहुः, 'दीसइ' इत्यादिना च फलविशेषस्याध्यक्षसिद्धता तुल्यकृष्यादावपि धान्याद्यल्पबहुत्वोपलब्धेः । एकस्यैवैकत्रास्पधान्यलाभः अन्यत्र बहुधान्यलाभ इति तु देशविशेषस्यापि अदृष्टफलहेतुत्वात न विरुद्धम् । 'उदयखयखओवसमा दव्वं खित्तं भवं च भावं च ' इत्यादिवचनात् । न च तस्यैवाऽस्तु फलविशेषहेतुत्वं तत्रैव, अन्यथान्यथोत्पद्यमानफलस्याहेतुकत्वापत्तेः । उपसंहरन्तो दृष्टाया अनेकान्तफलतामाशङ्ग्य समादधति अदिठेगंतफला तम्हा किरिआ इहं मता सव्वा । पू०-दिट्ठाणेगंतफला (आ.) सा वि अदिट्ठाणुभावेण ||१०६।। अथ प्रसङ्गतो दानादिक्रियात एव सुखागुत्पत्तिः सुरलोकभावश्च इतरस्मादितरद्वयमिति नियमनाय अमन्यतीन्यायेनाऽऽख्याय सिद्धान्तमाहुः For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy