SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्वैतमञ्जरी । मित्येवं रीत्या बुद्धित्वमिति व्यवस्थासिद्धये घटत्वाद्यवच्छिन्नप्रतियोगिताकसंयोगित्वेन यत्र सांसर्गिकविषयता, तत्र विशिष्टवैशिष्ट्यधीत्वम् । यत्र तु प्रतियोगितात्वमात्रेण । न तु घटत्वाद्यवच्छिन्नत्वं प्रतियोगितायां भाति । तत्र द्वितीयबुद्धित्वम् । अन्यथा विषयवैलक्षण्यं विना विषयतावैलक्षण्ये ज्ञानयो(लक्षण्यासम्भवात् । 'अर्थेनैव विशेषो हि निराकारतया धियामि' त्याचार्योक्तेः । 'अयं घट' इत्यादौ विशिष्टवैशिष्ट्यस्याविषयत्वेऽपि समवायप्रतियोगित्वानुयोगित्वभानं विशिष्टबुद्धिमात्रे ऐकरूप्यानुरोधात् । अथवा प्रतियोगित्वानुयोगित्वयोरेव संयोगादिनिष्ठसांसर्गिकविषयतानिरूपितत्वं प्रकारताविशेष्यतारूपत्वं च स्वीक्रियते। तथा च शिरोमण्याद्युक्तवाक्ये प्रकारत्वादेः प्रतियोगित्वानुयोगित्वादिक्लप्तपदार्थातिरिक्तत्वोक्तिरसङ्गता । उक्तवाक्ये हि एतेन प्रतियोगित्वाधिकरणत्वादयोऽपि व्याख्याता इत्यनेन प्रतियोगित्वानुयोगित्वमतिरिक्तमुक्तम् । तस्मादतिरिक्तैव विषयतेत्यादिना च प्रकारत्वादि व्यतिरिक्तमुक्तम् । अथ प्रतियोगित्वानुयोगित्वपदमभावनिष्ठानुयोगित्वस्याभावीयप्रतियोगित्वस्य चैव बोधकम् । न तु सम्बन्धप्रतियोगित्वानुयोगित्वयोरपि । तयोः प्रकारत्वादिशब्देनैव उक्तत्वादिति चेन्न । अधिकरणत्वशब्दस्य सम्बन्धानुयोगितासामान्यवचनत्वेन सत्समभिव्याहतप्रतियोगिताशब्दस्यापि सम्बन्धप्रतियोगितासामान्यवचनत्वात् । आदिपदेनैवाभावीयप्रतियोगित्वादेग्रहणात् । ननु, सम्बन्धप्रतियोगित्वानुयोगित्वयोः प्रतियोग्यनुयोगिस्वरूपत्वस्यैव सम्भवेन प्रतियोगित्वानुयोगित्वपदं न तदर्थकमिति चेन्न । 'तव्यक्तिस्तद्विशिष्टे'ति ज्ञानस्य प्रमात्वापत्त्या तयोरतिरिक्तत्वस्यावश्यकत्वात् । येन हि संयोगेन तद्यक्तेर्भूतलादौ प्रमा, तेनैव भूतलादेरपि तस्यां प्रमा । तथा च तस्य संयोगस्य तव्यक्तिप्रतियोग्यनुयोगिकत्वेनोक्तापत्तिः स्यादेव । तयोः अतिरिक्तत्वे तु तव्यक्तिनिष्ठप्रतियोगितानिरूपितानुयोगितायाः तत्तव्यक्तिनिष्ठत्वाभावान्नोक्तापत्तिः । न च तद्व्यक्तिरूपा या संयोगीयप्रतियोगिता तन्निरूपितानुयोगितारूपे धर्मिणि संयोगेन तव्यक्तिप्रकारकत्वं संयोगेन तद्व्यक्तिप्रमात्वमित्युक्त्यैवोक्तापलिवारणसम्भवादतिरिक्तयोः तयोः स्वीकारो न युक्त इति वाच्यम्। 'तद्यक्तिद्रव्य'मितिप्रमायास्सत्त्वेन द्वव्यत्वरूपेण तव्यस्स्स्वात्मकानुयोगितानिरूपकप्रतियोगितारूपत्वात् संयोगीयत्वाञ्चोक्तापत्तितादवस्थ्यात् । तस्मादतिरिक्तप्रतियोगित्वादेरावश्यकत्वात् तदन्यप्रकारत्वाद्युक्तिः उक्तवाक्येन युक्ता ! यदि चोक्तवाक्ये प्रतियोगित्वादिशब्देनाभावप्रतियोगित्वादिकमुच्यते । प्रकारत्वादिशब्देन तु भासमानवैशिष्टयप्रतियोगित्वादिकमुच्यते। तथापि तस्य विशिष्टबुद्ध्यविषयत्वोक्तिः सम्बन्धसस्वन्धाग्रहेऽपि विशिष्टज्ञानस्योपपादितत्वादिति मणिदीधितिवाक्येन युक्ता । उक्तयुक्तिभिस्तस्य विशि For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy