SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र०दे प्रत्यक्षबाधोद्धारः ] लघुचन्द्रिका । प्टबुद्धौ संयोगीयप्रतियोगितानिरूपितानुयोगित्वस्य संसर्गतया भानात् संयोगीयसांसर्गिकविषयतानिरूपितप्रतियोगित्वीयोक्तविषयतानिरूपितानुयोगित्वीयोक्तविषयता - सत्त्वादुक्तविषयताश्रयप्रतियोगित्वानुयोगित्वयोः प्रकारताविशेष्यतात्वसम्भवः । न च प्रकारतां विशेष्यतां वा अतिरिक्तां स्वीकृत्य तदाश्रयप्रतियोगिकत्वं तदाश्रयानुयो। गिकत्वं वा सांसर्गिकविषयत्वम् । नत्वतिरिक्तमित्येव कुतो न स्वीक्रियत इति वाच्यम् । संयोगेन रूपादिप्रकारकज्ञानस्थले तदसम्भवात् । न च प्रतियोगित्वादावपि विशेषणाद्यशे प्रकारतामङ्गीकृत्य संयोगादेरूपादिनिष्ठप्रकारतानिरूपितप्रकारताश्रयप्रतियोगित्वनिरूपकत्त्वरूपं सांसर्गिकविषयत्वमुच्यतामिति वाच्यम् । प्रतियोगित्वादेः प्रकारतया भानस्य सर्वानुभवविरुद्धत्वात् निप्प्रकारकज्ञाने निर्विकल्पकीयविषयतायाः क्लप्तत्वात् । तस्या एव विशेषणविशेप्ययोः स्वीकारात्तयोः विषयत्वव्यवहारः । तथा च यदीययोः प्रतियोगित्वानुयोगित्वयोस्संसर्गता तत्त्वे सति विषयत्वं प्रकारताविशेष्यते । वस्तुतस्तु, यदीयप्रतियोगितात्वेन रूपेण सांसर्गिकविषयता तत्त्वं प्रकारत्वम् । एवं विशेष्यता । तथा च विशेषणविशेष्ययोरपि सांसर्गिकमेव विषयत्वम् । तदन्यप्रकारत्वं न स्वीक्रियते । 'घटप्रतियोगिकभूतलानुयोगिकसंयोगेन द्रव्यवा'नित्यादिज्ञाने परेणापि घटत्वाद्यवच्छिन्नसांसर्गिकविषयतायाः स्वीकृतत्वान्न तत्कल्पनेऽस्माकं गौरवम् । एतेन स्वाश्रयसंयोगेन घटत्वप्रकारकज्ञानस्यापि घटत्वविशिष्टप्रकारकत्वापत्तिरित्यादिकमपास्तम् । घटत्वावच्छिन्नप्रतियोगितात्वरूपेण प्रतियोगित्वसंसर्गकज्ञानस्यैव घटत्वावच्छिन्नप्रकारताकशब्देन व्यवहारात्। अथ तादृशसांसर्गिकविषयताकधीत्वादिना कारणत्वादिकल्पनमपेक्ष्य घटत्वाव. च्छिन्नप्रकारतानिरूपितसंयोगत्वाद्यवच्छिन्नसांसर्गिकविषयताकधीत्वादिना कारणत्वादिकल्पने लाघवात् सांसर्गिकविषयतानात्मकप्रकारतैव कल्प्यतामिति चेन्न । तादृशप्रकारताविशेष्यतयोः कल्पनामपेक्ष्योक्तगुरुरूपेण कारणत्वादेरेव युक्तत्वात् । प्रतियोगित्वानुयोगित्वविषयताहि विशिष्टबुद्धौ सर्वलोकानुभवसिद्धा । अस्मिन् ज्ञाने भूतले घटस्य संयोगः संसर्गतया विषयः । तत्र तस्य संयोगो मया संसर्गतया ज्ञात इत्यादि लोकानुभवात् । किं च संयोगो न रूपप्रतियोगिक इति निश्चये सत्यपि संयोगेन रूपप्रकारकबुद्ध्यापत्तेः । संयोगो न रूपानुयो. गिक इति निश्चये सत्यपि रूपे संयोगेन घटादिप्रकारकबुध्यापत्तेश्च विशिष्टबुद्धिमात्रे विशेषणप्रतियोगिता विशेष्यानुयोगिता च न भातीति मतं हेयमेव । तदाने तु बाधविधया तद्विरोधिनीति ध्येयम् । किं च 'भूतलं घटवदि'त्यादिज्ञानस्य कदाचिद्विशिष्टवैशिष्ट्यबुद्धित्वं कदाचिद्विशेष्ये विशेषणं तत्रापि च विशेषणान्तर For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy