________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
सालङ्कारचूडामणौ काव्यानुशासने कारणम्, व्युत्पत्त्यभ्यासौ तु प्रतिभाया एव संस्कारकाविति वक्ष्यते।
तत्र गौणतां प्रदर्शयन्नाह-इदं प्रधानं कारणमिति । कारणकोटौ परोक्तयोव्युत्पत्त्यभ्यासयोः परम्परया कारणतयाऽन्यथासिद्धिं दर्शयति-व्युत्पत्त्यभ्यासौ त्विति-प्रतिभाऽभावे सतोरपि व्युत्पत्त्यभ्यासयोः काव्यानुत्पादात् , सत्यां प्रतिभायां कृतयोव्युत्पत्यभ्यासयोः काव्येऽचिरप्रसरस्व-निर्दोषत्वादिदर्शनाच, तयोः कारणभूतप्रतिभाया एव संस्कारकत्वमास्थेयमिति भावः । वक्ष्यते अग्रिमसप्तमसूत्रे इति शेषः । अत्रेदं विचार्यते-काव्यकारणनिर्धारणपरैर्बहुभिः पूर्वैराचार्यैः कथितेषु तत्कारणेषु विभिन्नता दृश्यते तत्र किं तत्त्वमिति । तत्र तावद् दण्डी
"नैसर्गिकी च प्रतिभा, श्रुतं च बहु निर्मलम् । अमन्दश्चाभियोगोऽस्याः, कारण काव्यसम्पदः ॥"
[काव्यादर्शे परि० १, श्लो०-१०३] इत्याह, तदाशयः-पूर्वजन्मसंस्कारसम्पन्नायाः स्वाभाविक्याः प्रखरायाः प्रतिभाया उत्तमकाव्यजनकत्वम् , बहु-अनेकविषयं शब्दच्छन्दोऽनुशासनादिनोच्यमानम् , निर्मलं-भ्रमादिदोषविधुरं श्रुतम् , अमन्दः-तीव्रः, अभियोगःकाव्यकरणाभ्यासश्च, तदीयोत्कर्ष-सद्यःस्फुरणादिकृते तदीयकारणतया मन्तव्याविति । तदाह स एव
"न विद्यते यद्यपि पूर्ववासना, गुणानुबन्धि प्रतिभानमद्भुतम् । श्रुतेन यत्नेन च वागुपासिता ध्रुवं करोत्येव कमप्यनुग्रहम् ॥"
काव्यादर्श परि० १, श्लो-१०४] इति, एतेन पूर्ववासनाजनितप्रतिभाया अस्फुटस्वेऽपि शास्त्रश्रवणाऽभ्यासाभ्यां काव्यवाकू स्फुरत्येवेति प्रतिपादितम् , तथा च तन्मते विष्वपि कारणत्वं पृथक पृथगित्यायातम् , यद्यपि पूर्वपचे कारणमित्येकवचननिर्देशेन त्रिष्वपि कारणत्वं व्यासज्य वर्तत इत्यायाति, तथापि तत्र 'काव्यसम्पदः' इति कथनेन काव्यस्योत्तमतायामेव त्रयस्य कारणत्वमिति तदभिप्राय आस्थेयो द्वितीयपद्यार्थानुरोधात् ।
For Private And Personal Use Only