________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
सालङ्कारचूडामणौ काव्यानुशासने अत्र प्रकरणात् तृतीयत्रिकनिर्देशाश्च रामे प्रतिपचे रामपदमनुपयुज्यमानं 'कठोरहृदय' इत्यनेन दर्शितावकाशं पितमरण-सीतावियोगाधनेकदुःखभाजनत्वं लक्षयदसाधारणानि निर्वेद-ग्लानि-मोहादीनि व्यनक्ति।
व्यतीत्यर्थः, भवतेरिह क्रियासामान्यवाचकत्वात् । एतावदुक्त्वा तस्या असहनावस्था सम्भाव्य हृदये स्थितां प्रत्यक्षवर्तिनीमिव मत्वा तामाह-ह हा हा देवि!, धीरा भव धैर्य धारय, ह हा हा इति हा इत्यस्यैव दुःखावेशवशाद् विलम्बितमुच्चारणं दुःखातिरेक व्यञ्जयति, यतस्त्वं देवी, अतो धैर्यधारणेऽपि समर्था भविष्यसीति सम्भावनाऽतो दुःखेन मा दीर्यस्व, अन सीताया भवनमेवासंभाव्यमिति मत्वा साधारणीकरणव्यापारेण हृदयनिहितां तां प्रति पूर्वोक्तसजलजलधराघुद्दीपनविभावानामुभयोः साधारणत्वावधारणादिना स्मरणेन वैदेहीति सम्बोधनेन, कथं भविष्यतीति विकल्पपरम्परया च प्रत्यक्षीकृतां हृदयस्फुटनोन्मुखी मत्वा ससम्भ्रममिदमाह-ह हा हा देवि! धीरा भवेति व्याख्यानान्तरम् । अत्र किं व्यङ्गयं कस्य चेति दर्शयति-अत्र प्रकरणादित्यादिना-प्रकरणादेव वस्तुप्रतीतिः, किञ्च तृतीयस्य वैदेही तु कथं भविष्यति' इत्यस्य त्रिकस्य निर्देशाच वक्तरि रामे ज्ञाते रामपदोच्चारण व्यर्थ सत् 'कठोरहृदयः' इत्यनेन दर्शितव्यङ्गयार्थस्थावकाशदानं यथा स्यात् तथा राज्यपरित्यागपूर्वकनिर्जनवनगमनजटावल्कलधारणपितृमरण-दयिताहरणादिजन्यदुःखसहनशीलत्वं तावतापि सम्भावितजीवितत्वं च लक्षयदसाधारणानि निर्वेदग्लानिमोहादीनि व्यनक्ति । तथा चात्र रामपदस्यैवोक्तानेकार्थान्तरलक्षकस्य व्यञ्जकत्वम् । लेपनसौहृदयोश्चेतनधर्मतया मेधे बाधाल्लिप्तसुहृत्पदयोापनोपकारयोर्लक्षणलक्षणायां तत्तदतिशयो व्यङ्गयः, इतीह संसृष्टाभ्यामर्थान्तरसमितवाच्यध्वनिभ्यामुक्तरूपात्यन्ततिरस्कृतवाच्यध्वनेः सङ्करः । “तद्नेहं नतभित्तिमन्दिरमिदं लब्धावकाशं दिवः" [इत्यादिपद्येऽग्रेऽध्यायान्ते व्याख्यास्यमाने ] इत्यत्र बुद्धिविषयतावच्छेदकत्वोपलक्षिततत्तधर्मावच्छिन्नवाचकेन तच्छब्देनैव प्रतीतिसौकर्येऽपि नतभित्तीति विशेषणवत् रामशब्दमहिन्नैव सिद्धे 'कठोरहृदय' इति विशेषणमर्थान्तरध्वनि विकासयितुमित्युक्तपूर्वम् , तादृशविशेषणसाहाय्यमेव हि स्वानुकूलं व्यङ्ग्यमवगमयति, इतरथा रामपदं कौशल्यादशरथप्रीतिपात्रत्वजानकीलाभादिसौभाग्यरूपं विपरीतमर्था
For Private And Personal Use Only