________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधानतो अध्या० १, सू० २३।
२६३
अत्रोपसंहृतदृष्टिवृत्तिरन्धशब्दो बाधितमुख्यार्थः पदार्थप्रकाशनाशक्तत्वं नष्टदृष्टिगतं निमित्तीकृत्यादर्शे वर्तमानोऽसाधारणविच्छायित्वानुपयोगित्वादिधर्मजातमसंख्य प्रयोजनं व्यनक्ति ॥
सरसं मधुरस्वभावं विमलगुण मित्रसंगमोल्लसितम् । कमलं नष्टच्छायं कुर्वते दोषाकर ! नमस्ते ॥ इति संस्कृतम् । केनचिच्चन्द्रमुद्दिश्यान्योक्तिव्याजेनोच्यतेसरसं सुन्दरम् , अथ च रसयुक्तम्, मधुरस्वभावं विमलगुणयुतं मित्रस्य सूर्यस्य, संगमेन विकसितम् , अथ मित्राणां-सुहृदां, सङ्गमेन हर्षयुतम्-कमलं तत्त्वेनाध्यवसितं, कमपि सुजनं, नष्टच्छायं नष्टशोभमपगतलक्ष्मीक च, कुर्वते, दोषाकर! दोषा-रात्रिस्तां करोतीति तादृश ! चन्द्र ! अथ दोषगणनिधे ! दुर्जन! ते नमः । तथा च कमलप्रख्यस्य तत्तुल्यगुणतयोक्तस्य कस्यचन महापुरुषस्य श्रियं नाशितवन्तं कञ्चन, चन्द्रवत् श्रीयुतं प्रति अप्रस्तुतप्रशंसयोच्यते इति अप्रस्तुतप्रशंसालङ्कारो व्यङ्ग्यः, इत्येवं रीत्येति, पदव्यामवगतायां सर्वैरनायासेन गन्तुं शक्यत इति भावः ॥ ___ क्रमप्राप्तं गौणशब्दशक्तिमूलं वस्तुध्वनि पदविषयकमुदाहर्तुमाह-गौणशब्दशक्तीति । रविसंक्रान्तेति-रवौ संक्रांतं सौभाग्य-जनप्रियत्वं यस्य हेमन्ते रवेरेवाह्लादकारित्वेन लोकप्रियत्वात् , तुषारेण-हिमेन, आविलम्आवृतं मण्डलं यस्य तादृशश्चन्द्रमाः, निःश्वासेन-मुखमारुतेन, अन्धः-मलिनीकृतः, आदर्शो दर्पण इव, न प्रकाशते न प्रकाश जनयति शोभते वा । अत्र किं वस्तु व्यङ्ग्यमित्याह-अत्रोपसंहृतदृष्टिवृत्तिरिति-"अन्धण् दृष्ट्यपसंहारे" इति धातुनिष्पन्नोऽन्धशब्द उपहतदृष्टिशक्तिं चेतनमाह, दर्पणे च दृष्टेरभावात् तदान्ध्यमपि बाधितमिति बाधितवृत्तिरूपमुख्यार्थः, ततश्च मालिन्यविशिष्ट पदार्थप्रकाशनाशकत्वं नष्टदृष्टिमजीवगतं निमित्तीकृत्य अवलम्ब्य, आदर्श वर्तमानस्तदतिशयमसाधारणविच्छायत्वानुपयोगित्वादिकं धर्मसमूहमसंख्यमियत्तया परिच्छेत्तुमशक्यं यावद्बुद्धिबलोदयोझेयं वस्तु प्रयोजनतया व्यनक्ति प्रकाशयति । अत्रैकस्यान्धशब्दस्यैव गौणीवृत्याऽप्रकाशरूपमर्थ प्रतिपादयतो व्यञ्जकत्वमिति गौणशब्दशक्तिमूलकत्वं स्पष्टम् ॥
For Private And Personal Use Only