SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२२ सालङ्कारचूडामणौ काव्यानुशासने ___ अत्र ममैव निःश्वासरोदितव्यानि भवन्तु, मा तवापि तां विना तानि जायन्तामिति विधिनिषेधयोरभिधाने न विधिर्नापि निषेधोऽपि तु कृतव्यलीकप्रियतमोपालम्भमात्रं प्रतीयते । क्वचिदविधिनिषेधेऽनुभयं यथा"णहमुहपसाहिअंगो निद्दाघुम्मंतलोअणो न तहा। जह निवणाहरो सामलंग! दूमेसि मह हिअयं ॥ [स० श०९३७ ] तया विना दाक्षिण्यहतस्य जनिषत ॥” इति संस्कृतम् । सपत्नीसमासक्तं तदन्तिके गन्तुमुत्सुकं स्वानुरोधेनाप्रकटिताभिप्राय निःश्वासादिना विज्ञाय काचिनायकं प्रत्याह, अथवाऽद्य ममैव सन्निधे स्थातव्यमिति प्रार्थनामनङ्गीकुर्षन केवलं निःश्वसन कश्चित् कयाचिदेवमुच्यते-बज स्वप्रेयसीगृहं गच्छ, एकस्याःएकाकिन्या ममैव निःश्वासरोदितव्यानि भवन्तु, स्वद्वियोगदुःखभागिन्यहमेकैव तिष्ठेयमिति वरम् , किन्तु, दाक्षिण्येन भनेककान्ताविषयाविषमानुरागेण, हतस्य नष्टस्य, [न तु प्रेमगुणोत्कर्षापकर्षविवेकिनः] तया-प्रेप्सितप्रेयस्या विना, तद्विरहेण निःश्वासरोदितव्यानि मा जनिषत । इह 'दुःखी स्थामहमेक एव सकलो लोकः सुखं जीवतु" इति न्यायेन सर्वथाऽनिष्टस्यापि प्रियगमनस्य विधिर्वाच्यः । त्वन्मनो नितरां तस्यामासक्तमिति त्वदीयं शठत्वमवधारितं मया, अतो मत्समीपे स्थित्वा कृतं कृतकदाक्षिण्यप्रकटनेनेति, विधि निषेधाभ्यामुदासीनमनुभयात्मक तदुपालम्भनात्मकं वस्तु व्यङ्ग्यमिति तदाहअत्र ममैव निःश्वासरोदितव्यानीत्यादिना-ममैवेति कथनेन न तव न वा तस्याः इति, यतो न सा मत्समा हतभाग्या, भवन्त्विति-दुःसहान्यपि सन्तु, न तु त्वत्समागमसुखानि, दाक्षिण्यमात्रेणैवेह स्थितोऽसीति विज्ञाते त्वयि स्थितेऽपि मम निःश्वासादीनि न निवर्तन्ते, तद् द्वयोरपि क्लेशस्यावश्यम्भावे वरमेकस्या ममैव केशभाजनत्वम्, तया विनेति कथनेन न मत्कोपकृतस्तव कोऽप्यनुशय इति चाविद्यते ॥ अथ क्वचिद् विधि-निषेधयोरुभयोरभावेऽनुभयप्रतीतिमुदाहरति-णमुहेति"नखमुखप्रसाधिताङ्गो, निद्राघूर्णलोचनो न तथा । यथा निर्मणाधरः श्याम. लाग! दूनयसि मम हृदयम्" ॥ इति संस्कृतम् । काचिदन्यासङ्गसूचकचिह्नितं For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy