________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
सालङ्कारचूडामणौ काव्यानुशासने
__ अत्र विस्तब्धो भ्रमेति विधिवाक्ये तत्र निकुञ्ज सिंहस्तिष्ठति त्वं च शुनोऽपि बिभेषि तस्मात् त्वया तस्मिन् न गन्तव्यमिति निषेधः प्रतीयते।
स्तेन, [अशक्यप्रतीकारेणेत्यर्थः ] मारितः-उन्माथितः, न तु बुद्धिपूर्वकं हतः,
औचित्यैकवसतेः [स्वसदृशेष्वेव पराक्रमो दर्शयितव्य इति विचारस्वभावस्य ] तस्य बुद्ध्यैवमनुचितकार्यप्रवृत्तेरसंभवात् , न च सिंहस्तेऽन्न संचरणे भयकारणं, यतोऽसौ गोदावर्या नद्यास्तीरे, न तु सरस्वत्यादिनदीसन्निहिते धार्मिकसंचारभूते देशे, कूलेऽपि न, किन्तु ततो दूरे लतागहने दर्शनागोचरे स्थाने, येन दूरतोऽपि दृष्ट्वा परिहरणीयः स्यात् , वसति-सततं तत्रैव कृतास्पदो न तु यतस्ततः सञ्चरति, तेन नियमिदानी सञ्चर भिक्षादिकृते, इति वाच्यार्थः । एवमादौ विषये च यद्यपि रसादिरपि व्यङ्गयोऽस्ति, तथापि विवाहकरणप्रवृत्तत्वेन महाराजशब्दव्यपदेश्यस्य सचिवस्य यात्रायामनुगच्छतो राज्ञ इव व्यङ्ग्यवस्त्वपेक्षयाप्राधान्यमुपगतत्वान्न गण्यते, किन्तु शुनोऽपि भीरोः सिंहोपलम्भोक्त्या तत्र सुतरां भ्रमणनिषेधस्तु वस्तुरूपः संकेतरहस्यभङ्गभीरुपुंश्चलीवैशिष्ट्येन व्यङ्ग्य इति वाच्य-व्यङ्ग्ययोर्भेदः । तदुक्तम्-अत्र विस्तब्धो भ्रमेति विधिवाक्य इत्यादिना । 'लतागहनस्थयैवेदमुच्यते' इति व्याख्यानं तु न शोभनम् , तथा सति लाक्षणिकोऽयमर्थों भवेत् , ततः प्रयोजनांशे व्यङ्गये निषेधो व्यङ्ग्य इति च न संगच्छेत; किञ्चेह वासिनेति चाभिधेयं न संगच्छेत, तत्रैव स्ववृत्तेविरोधात् ।।
अन्न केचित् निषेधस्य वाच्यतामेवाहुः, तन्न युक्तम् । तथाहि-अभिहिता. न्वयवादेऽगृहीतसंकेतः शब्दोऽर्थ न प्रतिपादयितुं शक्त इति गृहीतसंकेत एवं शब्दोऽर्थ प्रतिपादयति । वाक्यार्थस्यानन्त्यादेकन वाक्ये योऽर्थः प्रतीयते तस्मिन्नेव वाक्ये परत्र सोऽर्थो न प्रतीयत इति व्यभिचाराच्च यथा वाक्यार्थे संकेतः कर्तुमशक्यस्तथा विशेषरूपे पदार्थेऽपि संकेतः कर्तुं न पार्यते, इति सामान्य एव पदार्थे संकेतो गृह्यते । सामान्यभूतानामेव पदार्थानामाकाङ्क्षायोग्यता-सन्निधिवशात् परस्परमन्वयरूपो विशेषः, तदुक्तं-"सामान्यान्यथाऽसिद्धेविशेषं गमयन्ति हि ।" इति सामान्यानि-जातिरूपाण्यभिधेयानि, अन्यथाऽसिद्धेः-व्यक्ति बिना जातेरभावात् , विशेष-व्यक्तिरूपं-वाक्यार्थरूपं वा, गमयन्ति-आक्षिपन्त्यनुमापयन्ति वेति कारिकार्थः । विशेषरूपो व्यक्त्यादिस्तल्स
For Private And Personal Use Only