SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणी काव्यानुशासने ऽर्थान्तरेभ्यः प्रथम प्रतीयत इति मुख्यः, स च जाति-गुण-क्रियाद्रव्यरूपः, तद्विषयः शब्दो मुख्यो वाचक इति चोच्यते, यथा-गौः शुक्लश्चलो देवदत्त इति; यदाह महाभाष्यकारः "चतुष्टयी शब्दानां प्रवृत्तिः " [ अ. १. पा. ९. आ. २ "ऋलक" सूत्रे] इति । वारणस्य-गजस्य, करः-शुण्डादण्डः, सततं, दानाम्बुसेकसुभगः-मदसलिलसिञ्चनसुन्दरः, अभूदित्यन्वयः, कीदृशस्य वारणस्य ? भद्रात्मनः-भद्रजातीयस्य, "भद्रो मन्द्रो मृगो मिश्रश्चतस्रो गजजातयः" इति [ ४. २८४ ] हैमे; दुरधिरोहतनो:-अत्युच्चत्वाद् दुःखाधिरोह्यशरीरस्य; विशालवंशवत्-दीर्घवेणुवत् , उन्नतिः-उच्चता, यद्वा विशाला वंशस्य-पृष्ठदण्डस्योन्नतिर्यस्य तस्य; "वंशः संघेऽन्वये वेणी, पृष्ठाद्यवयवेऽपि च" इति हैमः; कृतः शिलीमुखाना-अमराणां संग्रहो येन तस्य; अनुपप्लवगतेः-अनुद्धतधीरगमनस्येति । वसन्ततिलका च्छन्दः "उक्ता वसन्ततिलका तभजा जगौ गः" इति तल्लक्षणात् । अत्र राजा वाच्यो हस्ती प्रतीयमानः । अनेकार्थकानां 'भद्रात्मनः' इत्यादिशब्दाना राज्ञि तदन्वययोग्ये चार्थे प्रकरणेन नियमनेऽपि सहृदयानां वासनाबलाद् या गजस्य तदन्वययोग्यस्य चार्थस्य प्रतीतिः सा व्यञ्जनयैव, तस्य चार्थस्य मुख्यत्वं मा भूदिति 'सङ्केतविषय' इत्यत्र साक्षादिति विशेषणमित्यलं पल्लवितेन ॥ ___ एवं मुख्यमर्थं लक्षयित्वा तस्य विभागमाख्याति-स चेति-मुख्यार्थश्च । जाति-गुण-क्रिया द्रव्यरूप इति-जातिश्च गुणश्च क्रिया च द्रव्यं चेति तानि रूपाणि-स्वरूपाणि यस्य स इति भावः । तद्विषयः तद्वाचकः शब्दः, मुख्य इति वाचक इति चोच्यते, मुख्यत्वं चास्याव्यवधानेनोपस्थितिजनकत्वमेव, वाचकत्वं च तदर्थवचनादेव । एकत्र वाक्ये चतुर्विधानामपि शब्दानामुदाहरणमाहयथा गौरित्यादि-गोरित्येष जातिशब्दो गोत्वसामान्यप्रवृत्तिनिमित्तकत्वात् , शुक्ल इति गुणशब्दः शुक्लगुणरूपप्रवृत्तिनिमित्तत्वात्, चलतीति च क्रियैव साध्यस्वरूपा, तादृशं रूपमादायैव तस्याः प्रवृत्तेः, 'देवदत्त' इति तन्नाम, तच्च तद्व्यक्तिरूपद्रव्यमादाय प्रवृत्तमिति द्रव्यप्रवृत्तिनिमित्तकमेवेति चतुर्विधत्वं तेषाम् । अन प्रामाणिकसम्मतिमाह-यदाह-महाभाष्यकार इति । यतः शब्दानां चातुर्विध्यं महाभाष्यकारोऽप्याह "ऋलक्" सूत्रे [अ. १. पा. १ आ. २.], तदुक्तं चातुर्विध्यं च-"जातिशब्दा गुणशब्दाः क्रियाशब्दा यदृच्छाशब्दाच" इति । For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy