________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० ३, सू० १५। १७३ मुख्यार्थविषयो मुख्यो गौणार्थविषयो गौणो लक्ष्यार्थविषयो लक्षको व्यङ्गयार्थविषयो व्यञ्जकः शब्दः, विषयभेदाच्छब्दस्य भेदो न स्वाभाविक इत्यर्थः ॥ १५॥
विषये लक्षकत्व-व्यञ्जकत्वयोरवेक्षणात् , यथा 'गङ्गायां घोषः' इत्यत्रैक एव गङ्गाशब्दो जलरूपार्थस्य वाचकः, तटरूपार्थस्य लक्षकः, शैत्यपावनत्वादेश्च व्यञ्जकः । शब्दानां चातुर्विध्यहेतुमूलमर्थचातुर्विध्यमुक्तं सूत्रे प्रथमं पञ्चम्यन्तपदेन, तानर्थान् क्रमशोऽग्रे निरूपयिष्यमाणान् विहाय प्रथमं चतुर्विधतया विभतस्य शब्दस्य स्वरूपं निर्वक्ति-मुख्यार्थविषयो मुख्य इत्यादिना-मुख्यःअर्थान्तरप्रतीतिनिरपेक्षप्रतीतिको योऽर्थः स विषयो यस्य तदभिधानेच्छयोच्चरितो यः स मुख्यः शब्दो वाचको वा; एवं गौणः-गुणवृत्त्या प्रवृत्तः, अर्थः-विषयो वाच्यो यस्य स गौणः; एवं लक्ष्यः-लक्षणया प्रतिपाद्योऽर्थों विषयो यस्य स लाक्षणिकः; एवं व्यञ्जनया प्रतिपाद्योऽर्थो विषयो यस्य स व्यञ्जक इति भावः । नन्वयं भेदो वास्तविकोऽवास्तविको वा ? आद्यश्चेत् ? पूर्वोदाहृते 'गङ्गायां घोष' इत्यत्रैकस्यैव गङ्गाशब्दस्यार्थत्रयभेदो नोपपद्येत, तथा च द्वितीयः पक्ष आदर्तव्य इत्याह-विषयभेदाच्छब्दस्य भेदो न स्वाभाविक इति-विषयो वाच्योऽर्थस्तस्य भेदकृत एव शब्देऽयं भेद उक्तः, स्वभावतस्तु नायं चतुर्विधः सर्वस्य शब्दस्य वाचकत्वात् । तत्तदर्थवाचकस्यैव शब्दस्य मुख्यार्थबाधादिभिर्लक्ष्यादर्थपरत्वमिति सिद्धान्तात् ।
नन्बिदमनुपपन्नमर्थचातुर्विध्यमूलं शब्दचातुर्विध्यमिति, तात्पर्यार्थस्यापि कतिपयैराचार्यैरास्थितत्वात् , तथाहि-आकाङ्क्षा-योग्यता-सन्निधिवशाद् वक्ष्यमाणजात्यादिस्वरूपाणां पदार्थानां परस्परसम्बन्धे तात्पर्याख्यवृत्तिप्रतिपाद्यो वाच्यार्थविलक्षणशरीरोऽपदार्थोऽपि [प्रत्येकपदगतवृत्त्यविषयीभूतोऽपि] वाक्यार्थः पदसमूहगम्यः समुल्लसतीत्यभिहितान्वयवादिन आहुः; तेषामयमाशयःलाघवात् पदानां पदार्थमात्रे शक्तिः, न त्वन्वयांशेऽपि गौरवादन्यलभ्यत्वाञ्च, तदंशोऽपि तात्पर्यार्थो वाच्यार्थविलक्षणशरीर आकासादिवशादपदार्थोऽपि प्रती. यते, आकाङ्क्षाप्रतीतिपर्यवसानविरहः, योग्यता बाधविरहः, सन्निधियवधानविरह आसत्तिरिति वा; न चापदार्थप्रतीतो स्वीकृतायां पदवृत्त्यविषयस्यापि शाब्दधीविषयत्वे कथञ्चिदुपस्थितस्य गगनादेरपि शाब्दबोधविषयत्वापत्तिरिति
For Private And Personal Use Only