SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १४। १६९ ___ अत्र युत्प्रेक्षायास्तद्वद्भावाध्यारोपरूपाया अनुप्राणकं सादृश्यं यथोपक्रान्तं तथा निर्वाहितमपि विप्रलम्भरसोपकाराय । न त्वेवं यथा"न्यश्चत्कुञ्चितमुत्सुकं हसितवत् साकूतमाकेकर, व्यावृत्तं प्रसरत् प्रसादि मुकुलं सप्रेमकम्प्रं स्थिरम् । "ध्वन्युत्पादे गुणोत्कर्षे भोगोक्तौ दोषवारणे । विशेषणादिदोषस्य नास्त्यनुक्तगुणग्रहः” ॥ इति, भूविलासान् भ्रुवो विभ्रमान् , उत्पश्यामीति सर्वत्र सम्बध्यते, तव साम्यस्य यत्र तत्रोपलब्धावपि नास्ति मनसो निर्वृतिरित्याह-हे भीरु ! कातरे ! हन्तेति विषादे, क्वचिदपि कस्मिन्नप्येकवस्तुनि, ते तव, सादृश्य, नास्ति, अतो न निर्वृणोमीति भावः ॥ अनेनास्या अनुपमसौन्दर्य व्यज्यते, 'भीरु !' इति विशेषणेनैकत्र सर्ववस्तुधारणे कातरत्वं स्वसादृश्योपलब्ध्या शङ्कितं स्ववैरस्य शङ्काकातयं च ध्वनितम् , क्वचित् 'चण्डि' इति सम्बोधनमुपलभ्यते, तस्य च प्रियस्यान्यसङ्गमशङ्कया कोपनत्वं व्यङ्ग्यम् , आंशिकसादृश्यस्य तन्त्र तत्रोत्प्रेक्षा. कृतबुद्धिप्रयासेन कथञ्चिदुपलम्भे सत्यपि सर्वात्मना सादृश्योपलम्भाभावसूचनेन तद्विषयाऽनुरागोऽक्षुण्ण इति च सूचितम् । निर्वाहेऽप्यङ्गन्त्वं निगमयति-अत्र ह्युत्प्रेक्षाया इत्यादिना-तद्वनावस्य-तद्रूपतापत्तेः, अध्यारोपः-तदात्मना सम्भावर्न रूपं यस्यास्तादृश्याः, उत्प्रेक्षाया अनुप्राणकं जीवनभूतं यत् सादृश्यं तत् , यथा येन रूपेण, उपक्रान्तं आरब्धम् , तथा निर्वाहितं परिसमापितमिति विप्रलम्भशृङ्गाररसोपकारसमर्थमिति भावः । अत्र निरूढसाम्यस्य रसोपकारत्वांशे कधेः सतर्कतयाऽलङ्कारस्याङ्गत्वमिति रसस्य प्राधान्यमक्षुण्णम् । 'भीरु !' इति सम्बोधने गुणाभावश्चिन्त्यः, अत एव तत्स्थाने 'चण्डि !' इति साम्प्रदायिकः पाठः ॥ एवमत्यन्तनिर्वाहस्योपकारकत्वमुदाहृत्य तदनुपकारकत्वमुदाहर्तुमाह'न त्वेवमिति- यथोदाहियमाणे पोऽलङ्कारनिर्वाहव्यापृतेन कविना रसमनादृत्य तत्रैव, सर्वः प्रयासः क्षपितस्तथा न युक्तमिति भावः । कुत्रेत्याह-न्यश्चत्कुञ्चितमिति । बालरामायणनाटके [ २।१९] सीताऽप्राप्तिदुःस्थितो रावणः स्वावस्था वर्णयन् 'हन्त ! हन्त ! नैकप्रकारो मदनव्यापारः, यतो मम वैदेहीदर्शनतः प्रभृति' इत्युपक्रम्याह-रसवशाद् विभिन्नरसव्यापारानुगुणम् , एकैकं चक्षुः प्रत्येकं For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy