SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने नात्यन्तं निर्वाहो यथा"कोपात् कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढं, नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः। भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं, धन्यो हन्यत एव निहुरतिपरः प्रेयान् रुदत्या हसन् ॥" [अ० श०९.] इत्यर्थान्तरन्यासत्वेनापि नेदृग्वरो लभ्यते इत्यनेनोक्तस्य दुर्लभत्वस्य समर्थनरूपार्थान्तरन्यासालङ्कारत्वेनापि, उपात्तं भवेदिति शेषः, तथापि प्रकृतस्य प्रकरणगतस्य जनकहृदि वर्तमानस्य-पादत्रयश्रवणेनोद्भिन्नप्रायस्य, धर्मवीररसस्य न कथञ्चन निर्वाह इति, ततः पूर्वमेव [क्क नु पुनरित्यतः पूर्वमेव ] त्याग उचित इति तन्न कृतमित्येतदनुचितमिति, त्याज्यमिदमिति भावः । अयमाशयः-अत्रत्यो हि धर्मवीरः स्वानुभावतया रावणदुश्चेष्टितपर्यन्तमेवार्थमपेक्षते, तदीयदुश्चेष्टितसमर्थनरूपस्य क पुनरित्यादेरर्थान्तरन्यासात्मना परिणतस्य समाधानस्य दर्शनेन तु तत्र ग्राह्यत्वप्रसत्या पूर्वोक्तशतानन्दवाक्येन दूषणोपन्यासार्थत्येनास्य पद्यस्य प्रवृत्ततया तत्समर्थनरूपो धर्मवीररसोपकारो न भवति, तथा च रावणगुणग्राम प्रति एकस्यापि गुणस्य दूषकतासमर्थनार्थमुपात्तस्यार्थान्तरन्यासालङ्कारस्य 'न रावणः' इत्येतावतैव त्यागे कृते धर्मवीरस्य निर्वाहः स्यादिति तथा न कृतमित्यवसरे त्यागाभावस्योदाहरणमिदमिति निर्गलितोऽर्थः ॥ रसोपकारकत्वस्य चतुर्थ प्रकारमुदाहर्तुमाह-नात्यन्तं निर्वाहो, यथाकमप्यलङ्कारं निर्वोढुमारभ्य तस्य रसानुगुण्यापेक्षया निर्वाहे मन्दा प्रवृत्तिर्नात्यन्तनिर्वाहपदेनोच्यते । तदुदाहरणम्-कोपात् कोमलेत्यादि-सायं दिवसावसानसमये, कोमला-मृद्वी, लोला-क्रोधावेशादथवा दुःखोद्रेकाच्चञ्चला च, बाहु-लतिकैव-भुजलतेव, पाशः-बन्धनसाधनम् , तेन दृढं-सुसंयतं यथा स्यात् तथा, बड्वा नियम्य, तथा वासनिकेतनं भोगागारं च, नीत्वा प्रापय्य, सखीनां पुरः साक्षितासम्पादनाय ताभिः पूर्ववन्नायं त्वत् शङ्कितापराधकारीति विश्वासिततया तासामेव समक्षं तदीयदुश्चरितप्रकाशनमुचितमिति बुद्ध्या वा तासामग्रे, 'भूयः-पुनरप्येवं दुश्चेष्टितं न कुर्याः' इति स्खलन्ती-कोपवशात् त्रुव्यन्ती, कला-प्रकृतिमधुरा च, गीर्यस्यास्तया, श्थगद्गदमनोरमन्याहारया, दयितया रुदन्त्या अश्रुपरिप्लुतनेत्या, प्रियापराधेन क्रन्दन्त्याऽपि तं प्रति सस्नेह For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy