________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने
उत्पत्तिर्दृहिणान्वये च तदहो ! नेहग्वरो लभ्यते, स्याञ्चदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ॥८॥"
. [बा० रा० अ. १. श्लो. ३६] अत्र 'म रावणः' इत्यस्मादेव त्यागो युक्तः, तथा हि-रावण इत्येत
परिगेष्यामीति रावणसंवादमधिगत्य शोचतो जनकस्यानुमोदनाथ तत्पुरोहितः शतानन्दः प्राह-अहो ! आश्चर्यमेकोऽपि गरीयान् दोषः समग्रमपि गुणग्राम दूषयति, तथाहि-आज्ञा शक्रशिखामणीत्यादि-यस्य आशा आदेशः, शक्रस्य-शक्नोति स्वेष्टं सम्पादयितुमिति शक्रस्तस्य देवेन्द्रस्य, शिखामणे:-मुकुटस्थमाणिक्यस्य, प्रणयिनी-प्रिया, देवेन्द्रेण शिरसि मणिमालेव वहनीयेति भावः, तत्र प्रणयिनीत्वेन निरूपणान्न केवलं तस्य सान्निध्ये एव तदाज्ञाकरवमिन्द्रस्य, अपि तु यथा शिखामणिः सततं तेन धार्यते तद्वदाज्ञापि सततं स्नेहेन शिरसि धार्यते इति व्यङ्ग्यम् ; शास्त्राणि नीतिधर्मशासनानि, नवं सर्वदा नूतनम् , वयोऽतिपातसंभाव्यमानसकलदूषणराहित्यसूचनाय नवमिति पदमुपात्तम् , चक्षुः नयनम् , शास्त्राज्ञामनुसंधाय तदनुकूलमेवाचरणात् शास्त्राणां चक्षुष्वम् , शास्त्राणि चक्षुरिति बहुवचनैकवचनाभ्यां सकलशास्त्रपर्यालोचनपूर्वकं तदैकमत्येन समन्वयबुझ्या कार्यकरणमपि सूच्यते; तथा भूतपतौ सकलप्राणिनामीश्वरे प्रेरके, पिनाकिनि शिवे, भक्तिः श्रद्धाकृतोऽनुरागः; एवं लंकेति प्रसिद्धा दिव्या उत्कृष्टा पुरी नगरी, निवासस्थानमिति भावः; द्रुहिणस्य-ब्रह्मणः, अन्वये-वंशे, उत्पत्तिः-जन्म, तत् तस्मात् , एतादृशगुणगणपूर्तेः सत्वात् , अहो आश्चर्यम् , ईडक दशमुखसदृशः, [अन्यः] वरः जामातृत्वेन वरणीयः पुमान् , न लभ्यते नैव प्राप्तुं शक्यते, चेत् यदि, एष रावणः रावयति-क्रन्दयति लोकान्-पीडनादिनेति तथाभूतो न स्यात्, यद्ययं रावणो न स्यात् तदा सर्वे वरगुणा इह समुदिता इत्यवश्यं वरणीयः स्यादिति, अस्य रावणत्वं समर्थयति—क नु पुनः सर्वत्र जने सर्वे गुणाः सम्भवन्तीति वा, लभ्येरनिति वा शेषः, तथा च जगदाक्रन्दकारित्वेन दोषणास्य सर्वे गुणा दूषिता इति भावः ॥
अत्रावसरे त्यागाभावमाह-अत्र 'न रावणः' इत्यस्मादेव त्यागो युक्त इति । अयमाशयः-एकोऽपि दोषो गुणग्रामं दूषयतीत्युपक्रम्य तत्समर्थनायैवायं
For Private And Personal Use Only