________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १३ ।
अत्र रेफानुप्रासः शब्दमलङ्कुर्वन् विप्रलम्भशृङ्गारमुपकरोति, रेफस्य शृङ्गारव्यञ्जकत्वेन विप्रलम्भशृङ्गारगतमाधुर्यस्योत्कर्षकत्वात् ।
अर्थ:--- घनसारं कर्पूरम् [ अथ च घन इव - लोहमुहर इव, सार:-बल पीडाकारकं यस्य तमित्यन्तर्ध्वनिः, ]
“घनं सान्द्रं घनं वाद्यं घनो मुस्तो घनोऽम्बुदः । घनः काठिन्यसंघातो विस्तारो, लोहमुद्गरौ” ॥ [ इति धरणिः ]
अपसारय- दूरीकुरु, हारं मुक्तासूत्रं, [ अथ च हारयति सुखं प्राणान् वेति स्वार्थण्यन्तादच्, प्राणहारकमिति ध्वनिः ], दूरे एव कुरु मा भूत् तत्सामीप्यमपि, कमलैः - सरोजैः, [ अथ च जलीयमलभूतैः ] किं किमपि न कार्यम्, आलि ! मृणालै:-बिसैः, अलमलं - किमपि नैव कार्य, तानि व्यर्थान्येवेत्यवधारणार्थ द्विरभिधानम् इति - पूर्वोक्तप्रकार- शैत्योपचारवारणपरं वाक्यं, बाला मुग्धा तथाविधदुःखासहिष्णुरिति भावः, दिवानिशं सततम् वदति । अत्र विरहवेदनायाः सततप्रवर्तमानत्वेन वर्णनाद् विप्रलम्भशृङ्गारध्वनिः ।
"
2
भर्थालङ्कारस्य रसोपकारकत्वं यथा
१४९
मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं,
प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो, न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ॥ " [ मालतीमाधवे, अङ्क: २]
wwwwwwwww
अर्थः- 'माधवानुरक्ताया मालत्या लवङ्गिकां सखीं प्रत्युक्तिरियम् - [ हे सखि ! अद्य मम ] मनोरागः - माधवविषयकश्चित्तानुरागः, अविरतं - निरन्तरं, तीव्रं यथा स्यात् तथा, विषमिव, अथवा तीव्रं विषमिव - हालाहलमिव, विसपति- विविधप्रकारेण सर्वतः संचरति व्यामोति वा ; [ ततोऽपि वृद्धः ] प्रमाथी प्रकर्षेण मथनशीलः क्षोभकारीति यावत् विधुतः - [ वातेनोत्तेजितः ] प्रज्वलितः, निर्धूमं यथा स्यात् तथा, पावक इव-अग्निरिव ज्वलति [ ततोऽप्युत्क - काष्ठां गतः ] गरीयान् अतिशयेन गुरुः [ सान्निपातिकः ], ज्वर इव प्रत्य - प्रत्यवयवं हिनस्ति तापयति; इतः कारणात् इतः दुःसहतरानुरागजन्यदुःखात्, मां श्रातुं रक्षितुं तातः-पिता, न प्रभवति [ नन्द
-
For Private And Personal Use Only