SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प्रकाशाभिधविवृतौ अध्या० १ सू० १२ । १४३ wwwwwww साक्षात् काव्यस्यात्मभूतं रसमपकर्षयन्तः काव्यस्यापकर्षका इत्युच्यन्ते; गुणाः शौर्यादिवत् अलङ्काराः कटककुण्डलादिवत्, रीतयोऽवयवसंस्थानविशेषवत्, देहद्वारेणेव शब्दार्थद्वारेण तमेव काव्यस्यात्मभूतं रसमुत्कर्षयन्तः काव्यस्योत्कर्षका उच्यन्ते । इत्थं चैषामपि मते रसापकर्षकत्वेन रसाश्रयत्वमेव दोषाणामिति स्पष्टम् । यत्-आचार्यवामनेन "काव्यशोभायाः कर्तारो धर्मा गुणाः" इति सूत्र[ काव्यालं० अधि० ३, अ० १ सू० १] व्याख्यायां ये खलु शब्दार्थयोर्धर्मः काव्यशोभां कुर्वन्ति ते गुणाः “गुणविपर्ययात्मानो दोषाः " [ अधि० २, अ० १, सू० १ ] इति सूत्रेण च गुणविरुद्धस्वरूपान् दोषान् कथयता शब्दार्थधर्मत्वं गुण-दोषयोरुक्तमिति प्रतीयते तदपि 'काव्यशोभाकर्त्तार' इत्युक्तिगर्भतया न प्रतिकूलम् काव्यस्यात्मभूतरसोत्कर्षेणैव काव्यशोभा सम्पद्यत इति परम्परया शब्दार्थद्वारा रसोपकारापकारयोरेव पर्यवसानात् । S www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir , ; यच् पण्डितराज जगन्नाथेन - "ये मी माधुयजः - प्रसादा रसमानधर्मतयोक्ताः, तेषां रसधर्मत्वे किं मानम् ? प्रत्यक्षमेवेति चेत् ? न - दाहादेः कार्यादनलगतोष्णस्पर्शस्य यथा भिन्नतयाऽनुभवस्तथा द्रुत्यादिचित्तवृत्तिभ्यो रसकार्येभ्योऽन्येषां रसगतगुणानामननुभवात् तादृशगुणविशिष्टरसानां द्रुत्यादिकारणत्वात् कारणतावच्छेदकतया गुणानुमानमिति चेत् ? प्रातिस्त्रिकरूपेणैव रसानां कारणतोपपत्तौ गुणकल्पने गौरवात् शृङ्गारवीरकरुणानां माधुर्यवच्वेन दुतिकारणत्वं प्रातिस्त्रिकरूपेण कारणत्वकल्पनापेक्षया लघुभूतमिति तु न वाच्यम्, परेण मधुरतादिगुणानां पृथग्द्रुततरत्वादिकार्य तारतम्य प्रयोजकतयाऽभ्युपगमेन माधुर्यवस्वेन कारणताया गडुभूतत्वात् इत्थं च प्रातिस्त्विकरूपेणैव कारणत्वे लाघवम् । किञ्चात्मनो निर्गुणत्वेनात्मरूपरसगुणत्वं माधुर्यादीनामनुपपन्नम् एवं तदुपाधिरत्यादिगुणत्वमपि मानाभावात् पररीत्या गुणे गुणान्तरस्यानौचित्याश्च । अथ शृङ्गारो मधुर इत्यादिव्यवहारः कथमिति चेत् ? एवं तर्हि द्रुत्यादिचित्तवृत्तिप्रयोजकत्वं प्रयोजकतासम्बन्धेन तुत्यादिकमेव माधुर्यादिकमस्तु, व्यवहारस्तु वाजिगन्धोष्णेति व्यवहारवदुपपन्नः, प्रयोजकत्वं चादृष्टादिविलक्षणं शब्दार्थरसरचनागतमेव ग्राह्मम्, अतो न व्यवहारातिप्रसक्तिः । तथा च शब्दार्थयोरपि माधुर्यांदेरीदृशस्य सत्त्वादुपचारो नैव कल्प्य इति तु मादृशाः" इत्युक्तम्, तस्यायं भावः – अग्निजन्यं दाहरूपं कार्यं यथोष्णस्पर्शरूपाद्गुणात्पृथगुपलभ्यते - For Private And Personal Use Only ,
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy